सामग्री पर जाएँ

चूर्ण्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चूर्ण्ण¦ पेषे चु॰ उभ॰ सक॰ सेट्। चूर्णयति--ते अचुचूर्णत् त। चूर्णः चूर्णितः

चूर्ण्ण¦ न॰ चूर्ण--कर्म्मणि अच्।

१ पेषणजाते क्षोदे (मयदा)प्रभृतौ राजनि॰
“अन्नादष्टगुणं चूर्णं चूर्णादष्टगुणंपयः” वैद्य॰। तल्लक्षणमुक्तं भावप्र॰
“अत्यन्तशुष्कंतद्द्रव्यं सुपिष्टं वस्त्रगालितम्। तत् स्याच्चूर्णं रजः॰क्षोदस्तन्मात्रा कर्षसम्मिता। चूर्णे गुडः समो देयः शर्करा-द्विगुणा मता। चूर्णे तु भर्जितं हिङ्गुदेयं नो-त्क्लेदकृद्भवेत्। लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणो-न्मितैः। पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः। चूर्णावलेहगुटिका कल्कानामनुपानकम्। पित्तवातकफातङ्के त्रिष्वेकपलमाहरेदिति” (आवीर)

२ ख्याते। क्षोदे
“अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” रघुः।

४ धूलौ तम्बूलोपकरणे

५ क्षारे (चूण) मेदि॰।
“चूर्ण-मानीयतां तूर्णं पूर्णचन्द्रनिभानने!। पर्णानि स्वर्णवर्णानिसीदन्त्याकर्णलोचने” उद्भटः। भावे अच्

६ पेषणे पु॰[Page2961-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=चूर्ण्ण&oldid=369716" इत्यस्माद् प्रतिप्राप्तम्