चेष्टावल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चेष्टावल¦ न॰ ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जा॰उक्तं यथा
“उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः। विपुलकरा युघि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परि-कल्प्याः” वृ॰ जा॰।
“अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादिराशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयन-मिति। उदगयने उत्तरायणे रविशीतमयूखौ सूर्य्य-चन्द्रमसौ बलिनौ भवतः। परिशेषाः भौमबुधगुरु-सितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथासमागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेणसंयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयोभौमादीनां परस्परं युद्धम्। उक्तञ्चाचार्य्यविष्णुचन्द्रेण
“दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम्। कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपु-लकराइति विपुलाः करा येषां ते विपुलकराः[Page2965-b+ 38] विस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीय-ततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवतिवक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिनएक। कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भागसंसितो जयी स च वलवान् उत्तरसंस्थत्वमत्रोपलक्ष-णार्ग्रम्। वस्तेजस्वी स एव बलवान्। तत्रैतज्जयलक्षणम्
“दक्षिणदिकस्थः परुषोवेपथुरप्राप्त सन्निकृष्ट-तनुः। अधि{??}दोविकृतोनिःप्रभो विवर्णश्च यः स जितः। उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्द्दिष्टः। विपुलः स्विग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः” इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः
“सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इतिएतच्चेष्टाबलम्। एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तोभवति” भट्टोत्पलः।
