चैत्ययज्ञ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चैत्ययज्ञ¦ पु॰ आश्व॰ गृह्योक्ते यज्ञभेदे तस्य विधानादि” यथा
“चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्” सू॰। चैत्ये भवाश्चैत्याः। शङ्करः पशुपतिः आर्याज्येष्ठा इत्येवमादयः। यदि कस्यैचिद्देवतायै प्रतिशृणोति यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्त्वामहमाज्येन स्थालीपाकेन पशुना वा यक्ष्यामीति ततो-लब्धे वस्तुनि तस्य तेन यागं कुर्यात् स चैत्ययज्ञः। तत्र स्विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारा-न्तेन नामधेयेन पुनश्चैत्यस्य ग्रहणं प्रत्यक्षहरणार्थम्। तेन चैत्यायतने एवोपलेपनादि कुर्य्यात्” ना॰ वृ॰।
“यद्यु बै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पतेइत्येतयर्चा द्वौ पिण्डौ कृत्वा वीबधेऽभ्याघाय दूतायप्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्य-मिति यो दूताय” सू॰।
“यदि विदेशस्थं चैत्यंयजेत् तदा पलाशदूतेन बलिं हरेत्। पलाशेन दूतंवीवधञ्च कुर्यात्। यत्र वेच्छेत्यृचा द्वौ पिण्डौ कृत्वावीवधेऽभ्याधाय दूताय प्रयच्छेत्। तयोरेकं पिण्डंनिर्दिश्य दूतं वदति इमं तस्मै बलिं हरेति। अपरं दूताय प्रयच्छति अयं तुभ्यमिति। एतयर्चेतिवचनम् अन्यत्र पादग्रहणेऽपि क्वचित् सूक्तं भवतीत्थेवमर्थम्। तेन
“आत्वाहार्षमन्तरेधीति ऋषभं मासमानानामिति” च सूक्तं सिद्धम्। अन्ये पुनरभ्या-सार्थं मन्यन्ते पिण्डकरणे वीवधाभ्याधाने दूतायप्रदाने इति ना॰ वृ॰।
“प्रति भयं चेदन्तरा शस्त्रमपिकिञ्चित्” सू॰।
“कर्त्तुश्चैत्यस्य च मध्ये भयमस्ति चेत्शस्त्रमपि किञ्चित् दद्यात् दूताय” ना॰ वृ॰।
“नाव्याचेत् नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति” सू॰।
“उभयोर्मध्ये यदि नावा तार्या नदी स्यात्तदा प्लवरूपमपि किञ्चित् दद्यात् अनेनेति मन्त्रेण” ना॰ वृ॰।
“धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरो-[Page2967-a+ 38] हितायाग्रे बलिं हरेत्” सू॰।
“यदि धन्वन्तरिश्चैत्यो भवति तदा व्रह्माणमग्निं चान्तरा पुरोहिता-याग्रे बलिं हरेत् पुरोहिताय नम इति ततो धन्वन्तरयेनम इति। धन्वन्तरौ विदेशस्थे त्वयं विशेषः धन्वन्तरेश्चपुरोहितस्य चैकः पिण्डः द्वितीयो दूतस्य”। ना॰ वृ॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चैत्ययज्ञ/ चैत्य--यज्ञ m. a sacrificial ceremony performed at a monument A1s3vGr2. i , 12.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चैत्ययज्ञ पु.
उस गाँव के निकट, जहाँ बलि दी जाती है। एक क्षेत्र के लिए समर्पित कृत्य; यदि चैत्य सुदूर स्थान पर हो, तो बलि पलाश के एक पत्ते में रख दी जाती है, जो दूत के रूप में काम करती है (पलाशदूत), आश्व.गृ.सू. 1.12.12; चैत्य की व्याख्या ‘चित्ते भवः’ इस रूप में की गई है, अर्थात् इस कृत्य का अनुष्ठान उस स्थिति में किया जाता है, यदि किसी ने देवता से वादा किया है कि वह उसे (देवता को) अपनी स्वयं की किसी विशेष कामना की पूर्ति होने पर एक आहुति अर्पित करेगा, इस पर नारायण- भाष्य; तुल. ओल्डेनबर्ग, श.ब्रा.इ. XXIX.178।
