छन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दः, पुं, (छन्द्यते इति । छन्द + भावे घञ् ।) अभिप्रायः । (यथा, रामायणे । २ । ९ । ७ । “मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ! । श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् ॥”) वशः । इत्यमरः । ३ । ३ । ८८ ॥ अभिलाषः । इति भरतः ॥ विषम् । इति शब्दचन्द्रिका ॥ रहसि त्रि । इत्यमरटीकासारसुन्दरी ॥

छन्दः, [स्] क्ली, (चन्दयति आह्लादयति चन्द्यतेऽनेन वा । चदि आह्लादे + “चन्देरा- देश्च छः ।” उणां । ४ । २१८ । इति असुन् चस्य छश्च ।) वेदः । (यथा, रघुः । १ । ११ । “आसीन्महीक्षितामाद्यः प्रणवच्छन्दसामिव ॥”) स्वैराचारः । अभिलाषः । (यथा, महाभारते । १२ । २०१ । १२ । “कामात्मकाश्छन्दसि कर्म्मयोगा एभिर्व्विमुक्तः परमश्नुवीत ॥”) पद्यम् । इति मेदिनी । से, २२ ॥ अस्य लक्षणं यथाह गङ्गादासः । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” एषामर्थः । अक्षरसंख्यातं अक्षरगणनया परि- प्राप्तं वृत्तमुच्यते । मात्राकृता मात्रागणनया निर्णीता जातिर्जातिसंज्ञिका भवति । समं समचतुष्पादम् । अर्द्धसमं यस्य प्रथमः पादः तृतीयेन पादेन तुल्यः चतुर्थः पादो द्वितीयेन पादेन तुल्यः । विषमं पृथक्लक्षणचतुष्पादम् ॥ (तत्र समवृत्तन्तु उक्थादिसंज्ञाभेदेन षड्- विंशतिप्रकारकम् । यदुक्तं छन्दोमञ्जर्य्याम् । “आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्द्धितैः । पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू- र्ब्बिका । गायत्त्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शर्करी सातिपूर्ब्बा स्थादष्ट्यत्यष्टी तथा स्मृते ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥” छन्दोलक्षणोपयोगिगणास्तु दश । यदुक्तं तत्रैव- “म्यरस्तजैभ्नगैर्लान्तैरेभिदशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥” म ऽऽऽ, न ॥।, भ ऽ॥, य ।ऽऽ, ज ।ऽ।, र ऽ.ऽ, स ॥ऽ, त ऽऽ।, ग ऽ, ल ।) छन्दस्तु नानाविधम् । तस्य ग्रन्थाः छन्दो- विचितिपिङ्गलच्छन्दोमञ्जरीवृत्तरत्नाकरश्रुत- वोधादयः सन्ति तेषु छन्दोमञ्जर्य्याद्युक्तलक्षणो दाहरणादीनि लिख्यन्ते ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दः in comp. for दस्

"https://sa.wiktionary.org/w/index.php?title=छन्दः&oldid=372537" इत्यस्माद् प्रतिप्राप्तम्