सामग्री पर जाएँ

छागलाद्यघृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

छागलाद्यघृत¦ न॰ चक्रदत्तोक्ते छागमांसपक्वे घृतभेदे यथा
“छागमांसतुलां गृह्य साधयेल्ललणाम्भसि। पाद-शेषेण तेनैव घृतपस्थं विपाचयेत्। ऋद्धिवृद्धी च मेदेद्वे जीवकर्षभकौ तथा। काकाली क्षीरकाकोलीपृथक् कल्केः पलोन्मितैः। सम्यक्सिद्धे त्ववतार्य्यशीते तस्मिन् प्रदापयेत्। शर्करायाः पलान्यष्टौ मधुनःकुडबं क्षिपेत्। पलं पलं पिवेत् प्रातर्यक्ष्माणं हन्ति[Page2984-a+ 38] दुर्ज्जयम्। क्षतक्षयञ्च कासञ्च पार्श्वशूलमरीचकम्। स्वरक्षयमुरोरोगं श्वासं हन्यात् सुदारुणम्”।
“तोयद्रोणद्वितये मांसं छागलस्य पलशतं पक्त्वा। जल-मष्टांशं सुकृतं तस्मिन् विपचेद् घृतं प्रस्थम्। कल्केनजीवनीयानां कुडवेन तु मांससर्पिरिदम्। पित्तानिलंनिहन्यात् तज्जानपि रसकयोजितं पीतम्। श्वास-कासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजां घोराम्। अध्वव्यपाय-शोषं शमयति चैवापरं किञ्चित्। छागशकृद्रसमूत्रक्षीरै-र्दध्ना च साधितं सर्पिः। सक्षारं यक्ष्महरं कास-श्वासोपशान्तये परमम्”। भैषज्यरत्नाबल्यां विशेषो यथा
“आजं चर्म्मविनिर्गुक्तंत्यक्तशृङ्गनखादिकम्। पञ्चमूली-{??}यञ्चैव जलद्रोणे विपाचयेत्। तेन पादावशेषेण घृत-प्रस्थं विपाचयेत्। जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैवशतावरी। छागलाद्यमिदं नाम्ना सर्ववातविकारनुत्। अर्दिते कर्णशूले च बाधिर्य्ये मूकमिन्मिने। जडगद्गद-पङ्गूनां खञ्जे गृध्रसिकुब्जयोः। अपतानेऽपतन्त्रे चसर्पिरेतत् प्रशस्यते। पृथगूर्द्धं तुलां पञ्चमृलद्वन्द्वाजमांसर्याः। निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते”।
“छागमांसतुलां गृह्य दशमूल्याः पलं शतम्। अश्व-गन्धपलशतं वाट्यालकशतं तथा। घृताढकं पचेत्तो-यैश्चतुर्भागावशेषितैः। क्षीरं स्नेहसमं दद्यात् शता-वर्य्या रसं तथा। ताम्रपात्रे दृढे चैव शनैर्मृद्वग्निनापचेत्। अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम्। जीवन्ती मधुकं द्राक्षा काकोल्यौ नीलमुत्पलम्। मुस्तंसचन्दनं रास्ना पर्णिनीद्वयं शारिवे। मेदे द्वे चतथा कुष्ठं जीवकर्षभकौ शटी। दार्व्वी प्रियङ्गुः त्रिफलानतं तालीशपद्मकौ। एलापत्रं वरी नागजातीकुसुमधान्यकम्। मञ्जिष्ठा दाडिमं दारु रेणुकं शैल-वालुकम्। विडङ्गं जीरकञ्चैव पेषयित्वा विनिः-क्षिपेत्। वस्त्रपूते च शीते च शर्कराप्रस्थसंयुतम्। निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे। अस्यौ-षधस्य सिद्धस्य शृणु वीर्य्यमतःपरम्। देवदेवं नमस्कृत्यसंपूज्य गणनायकम्। पिबेत् पाणितलं तस्य व्याधिंवीक्ष्यानुपानतः। सर्ववातविकारेषु अपस्मारे विशेषतः। उन्मादे पक्षघाते च आध्माने कोष्ठनिग्रहे। कर्णरोगेशिरोरोगे बाधिर्थ्ये चापतन्त्रके। भूतोन्मादे च गृघ्रस्यांसोद्गारे चाक्षिपातजे। पार्श्वशूले च हृच्छूले{??}ह्याया-मार्हिते तथा। वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले। [Page2984-b+ 38] क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मानमिन्मिने। अपतानेऽन्तरायामे रक्तषित्ते तथोर्द्ध्वगे। आनाहे-ऽर्शोविकारेषु चातुर्थकज्वरेऽपि च। हनुग्रहे तथाशोषे क्षीणे चैवापवाहुके। दन्तापतानवे भग्ने दाहेचाक्षेपके तथा। जीर्णज्वरे विषे कुष्ठे शेफस्तम्मेमदात्यये। आद्यबातेऽग्निमान्द्ये च वातरक्तगदेषु च। एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे। हस्तकम्पे शिरःकम्पे जिह्वाकम्पे जडे भ्रमे। क्षीणेन्द्रियेनष्टशुक्रे शुक्रनिःसरणे तथा। स्त्रीणां वातास्रपाते चपटले चाक्षिस्यन्दने। एकाङ्गस्पन्दने चैव सर्वाङ्गस्पन्दनेतथा। नागादिजनिते वाते स्त्रीणामप्राप्तिहेतुके। आभिचारिकदोषे च धनसन्तापसम्भवे। य वातप्रभवारोगा ये च पित्तसमुद्भवाः। शिरोमध्यगता ये चजङ्घापार्श्वादिसंस्थिताः। मातृग्रहाभिमूतश्च शिशुर्यश्चविशुष्यति। प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः। घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान्। निहन्तिसकलान् रोगान् घृतं परमदुर्लभम्। रसायनं वह्नि-बलप्रदञ्च वपुःप्रकर्षं विदधाति रूपम्। दन्ता-वलेन्द्रेण समानतेजा दीर्घायुषं पुत्रशतं करोति। स्त्रीणां शतं गच्छति वातिरेकं{??} याति तृप्तिं सरसःसमाङ्गः। अपुत्रिणी पुत्रशतं करोति शतायुषंकामसमं बलिष्ठम्। महत् घृतं नाम तु छागलाद्यंविनिर्मितं वातनिसूदन{??}। शिवं शुभं रोगभयाप-हञ्च चकार हारीतमुनिर्विशिष्टः। शृगालवर्हिणःपाके पुमांसं तत्र दापवेत्। मयूरी जम्बुकी च्छागीवीर्य्यहीनाः स्वभावतः। भाषितं काशिराजेन छाग-मेव नपुंसकम्”।

"https://sa.wiktionary.org/w/index.php?title=छागलाद्यघृत&oldid=373518" इत्यस्माद् प्रतिप्राप्तम्