छायाबिप्रतिपत्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छायाबिप्रतिपत्ति¦ स्त्री छायानां देहकान्तीना तत्प्रभृतीनांविप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः। सुश्रुतोक्ते नॄणां म-रणसूचके देहकान्त्यादीनामन्यथाभावे यथाह सुश्रुतः।
“अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः। श्यावालोहितिका नीला पीतिका वापि मानवम्। अभि-द्रवति यं छाया स परासुरसंशयम्। ह्रीश्रियौ न-श्यतो यस्य तेज ओजः स्मृतिः प्रभा। अकस्माद्यं भजन्तेनो स परासुरमंशयम्। यस्याधरौष्ठः पतितः क्षिप्त-श्चोर्द्धं तथोत्तरः। उभौ वा जाम्बवाभासौ दुर्लभंतस्य जीवितम्। आरक्ता दशना यस्य श्यावा वा स्युःपतन्ति च। खञ्जनप्रतिमा वापि तं गतायुषमादिशेत्। कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्यवै। कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून्। कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका। अवस्फूर्जति मग्ना वा न स जीवति मानवः। सङ्क्षिप्तेविषमे स्तब्धे रक्ते श्रस्ते च लोचने। स्यातां वा प्र-स्रुते यस्य स गतायुर्नरो ध्रुवम्। केशाः सीमन्तिनोयस्य संक्षिप्ते विनते भ्रुवौ। लुनन्ति चाक्षिपक्ष्माणिसोऽचिराद्याति मृत्यवे। नाहरत्यन्नमास्यस्थं न धा-रयति यः शिरः। एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्जहाति सः। बलवान् दुर्बलो वापि सम्मोहं योऽधिगच्छति। उत्थाप्यमानो बहुशस्त धीरः परिवर्जयेत्उत्तानः सर्व्वदा शेते पादौ विकुरुते च या। विप्र-सारणशीलो वा न स जीवति मानवः! शीतपादकरो-च्छ्वासश्छिन्नश्वासश्च यो भवेत्। काकोच्छ्वासश्च यो म-र्त्यस्तं धीरः परिवर्जयेत्। निद्रा न च्छिद्यते यस्य योवा जागर्त्ति सर्व्वदा। मुह्येद्वा वक्तुकामस्तु प्रत्याख्येयः[Page2998-a+ 38] स जानता। उत्तरौष्ठञ्च यो लिह्यादुद्गारांश्च करोतियः। प्रेतैर्व्वा भाषते सार्द्धं प्रेतरूपं तमादिशेत्। खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्त्तते। पुरुषस्याविषार्त्तस्य सद्यो जह्यात्स जीवितम्। वाताष्ठीलातु हृदये यस्योर्द्धमनुयायिनी। रुजान्नविद्वेषकरी सपरासुरसंशयम्। अनन्योपद्रवकृतः शोफः पादसमु-त्थितः। पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम्। अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता। श्वा-सिनः कासिनो वापि यस्य तं परिवर्जयेत्। स्वेदोदाहश्च बलवान् हिक्का श्वासश्च मानवम्। बलवन्त-मपि प्राणैर्व्वियुञ्जन्ति न संशयः। श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति। भुखञ्च जायते पूतियस्य तं परिवर्जयेत्। वक्त्रमापूर्य्यतेऽश्रूणां स्विद्यतश्चर-णावुभौ। चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः। अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च। यस्या-कस्मात्स विज्ञेयो गन्ता वैवस्वतालयम्। पङ्क्यमत्स्य-वसातैलघृतगन्धांश्च ये नराः। मृष्टगन्धांश्च ये वान्तिगन्तारस्ते यमालयम्। यका ललाटमायान्ति वलिंनाश्नन्ति वायसाः। येषां वापि रतिर्नास्ति यातारस्तेयमालयम्। ज्वरातिसारशोफाः स्युर्यस्यान्योन्याव-सादिनः। प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम्। क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा। न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः। पवाहिका शिरः-शूलं कोष्ठशूलञ्च दारुणामा। पिपासा बलहानिश्चतस्य मृत्युरुपस्थितः। विषमेणोपचारेण कर्म्मभिश्चपुराकृतैः। अनित्यत्वाच्च जन्तूनां जीवितं निधवंव्रजेत्। प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च। मरणाभिभुखं नित्यमुपसर्पन्ति मानवम्। तानि भेषज-वीर्य्याणि प्रतिघ्नन्ति जिघांसया। तस्मान्मोघाः क्रियाःसर्व्वा भवन्त्येव गतायुषः”।
