छालिक्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छालिक्य¦ पु॰ छलिके रूपकभेदे भवः ष्यञ्। गानभेदे। तच्चगानं देवलोके स्थितं वासुदेवेन तत आनीय नरलोकेप्रचारितं यथाह हरिवं॰
१४
८ अ॰।
“छालिक्यगानं बहु संविधानं यद्देवगान्धर्वमुदाहरन्ति। जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियु-क्ताम्। हल्लीषकन्तु स्वयमेव कृष्णः सुवंशघोषं नरपप्रियार्थम्। मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरास्ता जगृहुः[Page2998-b+ 38] प्रतीताः। आसारितान्ते च ततः प्रतीता रम्भोत्थितास्वाभिनयाय तज्ज्ञा। तयाभिनीते वरगात्रयष्ट्यातुतोष रामश्च जनार्द्दनश्च। अथोर्वशो चारु विशालनेत्राहेमा च राजन्नथ मिश्रकेशी। तिलोत्तमा चाप्यथमेनका च एतास्तथाऽन्याश्च हरिप्रियार्थम्। जगुस्तथैवाभिनयञ्च चक्रुरिष्टैश्च कामैर्म्मनसोऽनुकूलैःता वासुदेवेऽप्यनुरक्तचित्तः संनृत्यगीताभिनयैरुदारैः। नरेन्द्रसूनो! परितोषितेन ताम्बूलयोगेन वराप्सरोभिः। तदागताभिर्नृवराहृतास्तु कष्णेप्सया मानमयास्तथैव। फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथाहृतञ्च। कृष्णेच्छया च त्रिदिवान्नृदेव! अनुग्रहार्थभुवि मानुषाणाम्। स्थितञ्च रम्यं हरितेजसैव प्रर्यजयामास स रौक्मिणेयः। छालिक्यगान्धर्वमुदारवुस्तेनैव ताम्बूलमथ प्रयुक्तम्। प्रयोजितं पञ्चभिरिन्द्रतुल्यैश्छालिक्यमिष्टं सततं नराणाम्। शुभावहंवृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम्। पुण्यञ्चपुष्ट्यभ्युदयावहञ्च नारायणस्येष्टमुदारकीर्त्ति। जया-वहं धर्मधुरावहञ्च दुःस्वप्ननाशं परिकीर्त्त्यमानम्। करोति पापञ्च तथा विहन्ति शृण्वन् सुरावासगतोनरेन्द्रः। छालिक्यगन्धर्वमुदारकीर्त्तिर्मेने किलैकंदिवसं सहस्रम्। चतुर्युगानां नृपरेवतोऽथ ततःप्रवृत्ता सुकुमारजातिः। गान्धर्वजातिश्च तथा प-राणि दीपाद्यथा दीपशतानि रजन्!। विवेदकृष्णश्च सनारदश्च प्रद्युम्नमुख्यैर्नृपभैममुख्यैः। विज्ञातमेतद्धि परं यथावदद्देशमात्राणि जनैस्तु लोके। जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथ वासमुद्रे। ज्ञातुं हि शक्यं हिमवान् गिरिर्व्वा पलाग्र-तो वा गुणतोऽथ वापि। शक्यं न च्छालिक्यमृतेतपोमिस्ताने विधानान्यथ मूर्छनासु। षड्ग्रामरागेषु चतत्र कार्य्यं तस्यैकदेशावयवेन राजन्!। लेशामिधानंसुकुमारजातिं निष्ठा सुदुःखेन नराः प्रयान्ति। छाल-क्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसघाः। निष्ठांप्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन। भैमोत्तमानां नरदेव! दत्तं लोकस्य चानुग्रहकाम्ययैव”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छालिक्य n. = छलिकHariv.
