जडभरत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जडभरत¦ पु॰ जडोमूक इव भरतः। आङ्गिरसप्रवरसुते योगि-भेदे सहि पूर्व्वतरजन्मनि भरतनामा नृपतिरासीत् स चवानप्रस्थाश्रमे हरिणशिशुपालनेन तत्स्नेहवशात्मृत्युकाले तमनुस्मरन् मृगत्वमाप्त्वा कर्म्मक्षयात् तद्देहंत्यक्त्वा पुनः आङ्गिरसपवरस्य पुत्रतामासाद्य स्नेहदोषेणपुनस्तिर्य्यग्योनिप्राप्तिशङ्कया ज्ञानवानपि जडत्वमिवव्यञ्जयन्नासीत्। तत्कथा च भाग॰
५ स्क॰ स्थितादिङमात्रमत्र प्रदर्श्यते।
“अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्म-ज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य्यगुणा नवसोदार्य्या अङ्गजा बभूवुः। मिथुनञ्च यवीयस्यांभार्य्यायाम्। यस्त तत्र पुमांस्तं परमभागवतं राजर्षि-प्रवरभरतमुत्सृष्टमृगशरीरम् चरमशरीरेण विप्रत्वं-गतमाहुः। तत्रापि स्वजनसङ्गाच्च भगवतः कर्म्म-बन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलंमनसा विदधदात्मनः प्रतीवातमाशङ्कमानो भगवदनु-ग्रहेणानुस्मृतखपूर्वजन्माबलिरात्मानमुन्मत्तजडान्धबधिर-[Page3015-b+ 38] स्वरूपेण दर्शयामास लोकस्य। तस्यापि ह वा आत्मजस्य स विप्रः पुत्रस्नेहानुबद्धमना आसमावर्त्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनःशौचाचमनादीन् कर्म्मनियमाननभिप्रेतानपि सम-शिक्षयत्। अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति। स चापि तदुह पितृसन्निधावेवासध्रीचीनमिव स्मकरोति। छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिःसप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्तिकान्मासान-धीयानमप्यसमवेतरूपं ग्राहयामास। एवं स्वतनुजआत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियम-गुर्वनलशुश्रूषणाद्यौपकुर्वाणकर्म्माण्यनभियुक्तान्यपि स्व-यमनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयंतावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं ग्रह एवप्रमत्तौपसंहृतः। अथ यवीयसी द्विजसती स्वगर्भजातंमिथुनं सपत्न्या उपन्यस्य स्वयमनुसस्थया पतिलोकमगात्। पितर्य्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यांविद्यायामेव पर्य्यवसितमतयोन परविद्यायां जडमति-रिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्। स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्य-माणो यदा तदनुरूपाणि प्रभाषते कर्म्माणि च कार्य्य-माणः परेच्छया करोति। विष्टितो वेतनतोवा याच्ञयायदृच्छया वोपसादितमल्पं बहुमिष्टं कदन्नं वाभ्यवहरतिपरं नेन्द्रियप्रीतिनिमित्तम्। नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-यीर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः। शीतोष्णवातवर्षेषु वृषैवापावृताङ्गः पीनसंहननाङ्गः स्थ-ण्डिलसंवेशनानुमर्द्दनामज्जनरजसा महामणिरिवान-भिव्यक्तव्रह्मवर्च्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा-द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयाऽतज्ज्ञजनावमतोविचचार। यदा तु परत आहारङ्कर्म्म वेतनतईह-मानः स्वभ्रातृभिरपि केदारकर्म्मणि निरूपितस्तदपिकरोति। किन्तु न समं विषमं न्यूनमधिकमिति वेद। कणपिण्याकफलीकरणकुलमाषस्थालीपुरीषादीनप्यमृत-वदभ्यवहरति। अथ कदाचित् कश्चिद्वृषलपतिर्भद्र-काल्यै पुरुषपशुमालभतापत्यकामः। तस्य ह दैववि-मुक्तस्य पशोः पदवीन्तदनुचराः परिधावन्तो निशि नि-शीथसमये तमसा पावृतायामनधिगतपशव आकस्मिकेनविधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्ष[Page3016-a+ 38] माणमङ्गिरःप्रवरसुतमपश्यन्। अथ तएनमनवद्य-लक्षणमवमृष्य भर्त्तृकर्म्मनिष्पत्तिं मन्यमानाबद्ध्वा रश-मया चण्डिकागृहमुपनिन्युर्मुदा बिकसितवदनाः। अथ पणयस्तं स्वबिधिनाभिपिच्याहतेन वाससाच्छाद्य-भूषणानुलेपस्रक्ताम्बूलादितिलकादिभिरुपस्कृतं भुक्तवन्तंधूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैश-ससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण चपुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः। अथ वृष-लराजपतिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्य-माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे। इतितेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलाधीरकुलं कदर्थीकृत्योत्पथेन स्वैरंविहरतां हिंसाविहाराणां कर्म्मातिदारुणं यद्व्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्व्वैरस्य सर्वभूतसु-हृदः सूनायामप्यननुमतमालभनं तदुपलभ्य व्रह्मतेजसा-ऽतिदुर्विपहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैवदेवी भद्रकाली। भृशममर्षरोषावेशरभसविलसि-तभृकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदनाहन्तुकामैवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्तीतत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृकण-शीर्ष्णां गलात् स्रवन्तमसृगासवमत्युष्णं सह गणेन नि-पीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौननर्त्त च विजहार च शिरःकन्दुकलीलया। एवमेवखलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति। न वा एतद्विष्णुदत्त! महदद्भुतं यदसंभ्रमः स्वशिरश्छेदेआपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्व-सत्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवताऽनिमिषाऽरि-वरायुधेनाप्रमत्तेन तैस्तैर्भावैरभिरक्ष्यमाणानां तत्पदमूल-मकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम्”।
९ अ॰
“अथ सिन्धुसौवीरपतेरहूगणस्य व्रजतैक्षुमत्यास्तटेतत्कुलपतिना शिविकावाहपुरुषान्वेषणसमये दैवेनोप-सादितः स द्विजवरौपलब्धः। एष पीवानसंहननाङ्गो-गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सहगृहीतः प्रसभमतदर्हौवाह शिविकां स महानुभावः!यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहितापुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य्यपुरुषानधिवहत आह। हे वाढारः माध्वतिक्रा-मत किमिति विषममुह्यते यानमिति?। अथ त ईश्वर-[Page3016-b+ 38] वचः सौपालम्भमुपाकर्ण्य उपायात्तुरीयाच्छङ्कित-मनसस्तं विज्ञापयां बभूवुः। न वयं नरदेव! प्रमत्ताभवन्नियमानुपथाः साध्वेव वहामः। अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढु मुह वयं पारया-मैति। सांसर्गिकोदोष एव नूनमेकस्यापि सर्वेषांसंसर्गिणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचोराजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृतईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसा-वृतमतिराह अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-मध्वानमेक ऊहिवान् सुचिरं नातिपीवानसंहननाङ्गोरजसा चोपद्रुतो भवान् सखे! नो वा परएते संघट्टिनइति बहुविप्रलब्धोऽप्यविद्यया विहितद्रव्यगुणकर्म्माशयेस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषे अहं ममेत्यनध्या-रोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णी शिविकां पूर्ववदु-वाह। अथ पुनः स्वशिविकायां विषममतायां प्र-कुपित उवाच रहूगणः। किमिदमरे त्वं जीवन्मृतोमांकदर्थीकृत्य भर्तृशासनमतिचरसि। प्रमत्तस्य च तेकरोमि चिकित्सां दण्डपाणिरिव जनतायाः यथाप्रकृतिं स्वां भजिष्यसीति। एवं बह्वबद्धमभिभाषमाणंनरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्य्यायांमातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह। श्रीब्राह्मण उवाच। त्वयोदितं व्यक्तमविप्रलब्धं भर्तुःस मे स्याद्यदि वीर! भावः। गन्तुर्यदि स्यादधिगम्यमध्वापीवेति राशौ न विदां प्रवादः। स्थौल्यं कार्श्यव्याधयश्चाधयश्च क्षुत्तुड्भयं कन्तिरिच्छा जरा च। निद्रा-रतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति। जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद् यद्विकृतस्यदृष्टम्। खस्वाम्यभाबो ध्रुवईड्य! यत्र तर्ह्युच्यतेऽसौ-विधिकृत्ययोगः। विशेषबुद्धेर्बिवरं मनाक् च पश्यामियन्न व्यवहारतोऽन्यत्। क ईश्वरस्तत्र किमीशितव्यमथापि राजन्! करवाम किन्ते। उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर! चिकित्सितेन। अर्थः कियान्भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः। श्रीशुकउवाच। एतावदनुवादपरिभाषया प्रत्युदीर्य्य समुनिवर उपशमशील उपरतानात्मानिमित्त उपभोगेनकर्म्मारब्धं त्यपस्यन् राजयानमपि तथैवोवाह। स[Page3017-a+ 38] चापि पाण्डवेय! सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायांसम्यक्श्रद्वयाधिकृताधिकारस्तद्धृदयग्रन्थिविमोचनं द्विज-वच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्यशिरसा तत्पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच। कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि-सूत्रं कतमोऽवधूतः। कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय नश्चेदसि नोत शुक्लः। नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात्। नाग्न्यर्कसोमानिलवि-त्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात्। तद् ब्रूह्यसङ्गोजडवन्निगूढविज्ञानवीर्य्योविचरस्यपारः। वचांसि योगग्रथितानि साधो! न नः क्षमन्ते मनसापि भेत्तुम्। अहञ्च योगेश्वरमात्मतत्त्वविदां मुनीनां प्रवरं गुरुवै!प्रष्टुं प्रवृत्तः किमिहारणं यत्साक्षाद्धरिं ज्ञानकलावतीर्णम्। स वै भवान् लोकनिरीक्षणार्थमव्यक्तलिङ्गोविचरत्यपिस्वित्। योगेश्वराणां गतिमन्दबुद्धिः कथं विवचक्षीतगृहानुबद्धः”
१० अ॰। ततः तेन रहूगणनृपाय योगमुक्त्वा प्रारब्धाव-माने मुक्तो बभूवेति कथा तदुत्तराध्यायादौ स्थिता।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जडभरत/ जड--भरत m. " the stupid भरत" , N. of a man simulating stupidity Ja1ba1lUp. BhP. v , 9 f.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--see Bharata.
