जन्ममास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्ममास¦ पु॰
६ त॰।
१ जन्माधारमासे
२ तत्सजातीये मासे च
“न जन्ममासे न च चैत्रपौषे क्षौरं विवाहो न च कर्ण-वेधः” ज्यो॰ त॰
“जन्मर्क्षे जन्ममासे वा तारायामथ जन्मनि। जन्मलग्ने भवेदूढा धनाढ्या जन्मभोदये” चण्डेश्वरः। जन्ममासश्च यस्मिन् चान्द्रे मासे जन्म स मासः इत्येकेजन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममासइति पक्षान्तरं यथाह मु॰ चि॰ व्याख्यायां पी॰ धा॰
“जन्मर्क्षमासतिथयो व्यतिपातभद्रावैधृत्यमापितृदिनानितिथिक्षयर्द्धी। न्यूनाधिमासकुलिकप्रहरार्धपातविष्कम्भ-वज्रघटिकात्रयमेव वर्ज्यम्” मु॰ चि॰। जन्मर्क्षमासतिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वर्ज्या इति द्वितीयश्लोकेनान्वयः तान् पदार्थानाह जन्मर्क्षेति यस्मिन्नक्षत्रेजन्म भवेत् तज्जन्मर्क्षं यस्मिन् मासे जन्म भवेत् सजन्ममासः यस्यां तिथौ जन्म भवेत् स। जन्मतिथिःएते वर्ज्याः यदाह वसिष्ठः
“स्वजन्ममासर्क्षतिथिक्षणेषुवैनाशकाद्यृक्षगणेषु भेषु। नोद्वाहयात्राभ्युदया-भिलाषी नैवाद्यगर्भद्वितयं कदाचित्”। अयं च जन्म-नक्षत्रमासतिथिनिषेधः आद्यगर्भस्यैव यदाह नारदः
“जन्ममासे न जन्मर्क्षे न जन्मदिवसेऽपि वा। आद्य-गर्भसुतस्यापि दुहितुर्वा करग्रहः” इति अनेनाद्यगर्भ-व्यतिरिक्तकन्यायास्तादृशवरस्य जन्र्क्षमासतिथिषु शुभ-फलत्वमुक्तं भवति अतएवाह च्यवनः
“जन्मर्क्षेजन्ममासे वा तारायामथ जन्मनि। जन्मलग्ने भवेदूढापुत्राढ्या पतिवछभा”। अथ जन्ममासलक्षणं जगन्मो-हने वृद्धगर्गः
“आरभ्य जनमदिवसं यावत्त्रिंशद्दिनंभवेत्। स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु” इतिअस्यापि विशेषस्तत्रैव
“जातं दिनं दूषयते वसिष्ठःपञ्चैव गर्गस्त्रिदिनं तथात्रिः। तज्जन्मपक्षं किल भागु-[Page3030-b+ 38] रिश्च व्रते विवाहे गमने क्षुरे चेति”। घस्तुतस्तु यस्मिंश्चान्द्रमासे चैत्रादौ जन्माभूत् स चान्द्रमासो उत्म-मासतया त्याज्य इति युक्तमुत्पश्यामः
“इन्द्राग्नी यत्रहूयेते मासादिः स प्रकीर्त्तितः। अग्नीषौमौ स्थितौमध्ये समाप्तौ पितृसोमकाविति” हारीतवचनात्
“उप-वासव्रतोद्वाहा यात्रा क्षौरोपनायनम्। तिथिवर्षादि-निखिलं चान्द्रमानेन गृह्यते” इति कश्यपोक्तेश्च। अत्रचान्द्रमासस्यैव चूडादौ निषेध इति स्थितम्। जन्ममासस्य जन्मतिथिकृत्ये चान्द्रपरता क्षौरादिनिषेधे सौरपरतेति म॰ त॰ रघु॰।
“विवाहादौ स्मृतःसौरः” इति तद्धृतवचनात्। आचारभेदात् देशभेदाच्चव्यवस्था। उपयमशब्दे
१२
४४ पृ॰ अधिकं दृश्यम्।
