सामग्री पर जाएँ

जयमङ्गलरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जयमङ्गलरस¦ पु॰ जयेन रोगजयेन मङ्गलं यस्मात् तादृशोरसः। वैद्यकोक्ते सर्वज्वरनाशके औषधभेदे।
“हिङ्गूल-सम्भवं सूतं गन्धकं टङ्कणं तथा। ताम्रं वङ्गं माक्षिकञ्चसैन्धवं मरिचं तथा। समं सर्वं समाहृत्य द्विगुणं स्वर्ण-भस्मकम्। तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत्समम्। एतत् सर्वं विचूर्ण्याथ भावयेत् कनकद्रवैः। शेफाली-दलजैश्चापि दशमूलरसेन च। किराततिक्तकक्वाथैस्त्रिवारंभावयेत् सुधीः। भावयित्वा तु तत्कार्य्या गुञ्जाद्वयमितावटी। अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम्। जीर्णज्वरं महाघोरं चिरकालसमुद्भवम्। ज्वरमष्टविधं हन्तिसाध्यासाध्यमथापि वा। पृथगदोषांश्च विविधान् समस्तान्विषमज्वरान्।

१ मेदोगतं

२ मांसगतमस्थि

३ मज्जा

४ गतंतथा।

५ अन्तगतं महाघोरं

६ वह्निस्थञ्च विशेषतः।

७ नानादोषोद्भवञ्चैव ज्वरं

८ शुक्रगतं तथा। निखिलंज्वरनामानं हन्ति श्रीशिवशासनात्। जयमङ्गलनामायंरसः श्रीशिवनिर्म्मितः। बलपुष्टिकरश्चैव सर्वरोगनिव-र्हणः” भैषज्यरत्नाबली। अत्र द्विगुणं स्वर्णभस्मकमित्यत्रसर्वेषां समस्तानां यन्मानं ततो द्विगुणं स्वर्णमिति मुख्यःकल्पः। प्रत्येकापेक्षया द्विगुणमिति कनिष्ठः कल्पः।

"https://sa.wiktionary.org/w/index.php?title=जयमङ्गलरस&oldid=379678" इत्यस्माद् प्रतिप्राप्तम्