सामग्री पर जाएँ

जलयात्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जलयात्रा¦ स्त्री जलस्य तदाहरणार्थं यात्रा। शुभकर्मसम्पा-दनाय जलाहरणाय यात्रायाम्। तद्विधानादिकमाहवि॰ पा॰ वशिष्ठः
“शान्तिकं पौष्टिकं वापि जलयात्रां विनाबुधः। कुरुते यदि वा मोहात् कर्म तस्य च निष्फलम्। तडागादिप्रतिष्ठासु देवतायतनादिषु। लक्षहोमेकोटि-होमेऽयुतहोमे तथैव च। व्रतोत्सर्गमहादानेयज्ञे वा वितते शुभे”। व्रतोत्सर्गे व्रतोद्यापनेइत्यर्थः।
“जलयात्रां पुरा कृत्वा श्रेष्ठं कर्म समाचरेत्। अथातः। संप्रबक्षामि जलयात्राविधिं शुभम्। यज्ञ-शालामतिक्रम्य ऋत्विग्मिर्व्राह्मणैः सह। यजमानःसपत्नीकः सुहृद्वन्धुजनैर्युतः। अश्वारूढो गजारूढोवस्त्रालङ्कारभूषितः। गृहीत्वोपस्करं सर्वं गन्ध-पुष्पाक्षतादिकम्। जलाशयन्ततो गच्छेद्गितवादित्रनि-स्वनैः। अगाधं च ह्रदं गच्छेन्नदी वाथ समुद्रगाम्। सुवासिन्योऽग्रतः कार्य्याः सर्वालङ्कारभूषिताः। हैमरा-जतताम्रान् वा मृण्मयान् कलशाञ्छुभान्। गृहीत्वागन्धपुष्पाद्यैरर्च्चितान् सुदृढान् नवान्। जलाशय समा-साद्य तीरे गोमयलेपिते। चतुरस्रीकृते क्षेत्रे तत्रस्वस्तिकमालिखेत्। यवैर्वा तण्डुलैर्वापि पद्ममष्टदलं लिखे-दित्यादि”। विस्तरस्तत्र दृश्यः। [Page3071-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जलयात्रा/ जल--यात्रा f. a sea voyage W.

"https://sa.wiktionary.org/w/index.php?title=जलयात्रा&oldid=381472" इत्यस्माद् प्रतिप्राप्तम्