सामग्री पर जाएँ

जलवैकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जलवैकृत¦ न॰ विकृतस्य भावः अण्

६ त॰। दूर्निमित्तसूचकेनद्यादीनां जलविकारभेदे तत्फलादिकमुक्तं वृ॰ स॰

४६ अ॰ यथा। (
“अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते। शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम्। स्नेहासृङ्-मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि। परचक्र-स्यागमनं सद्यः कथयन्ति षण्मासात्। ज्वालाधूम-क्काथा रुदितोत्क्रुष्टानि चैव कूपानाम्। गीतप्रजल्पि-तानि च जनमरकाय प्रदिष्टानि। तोयोत्पत्तिरखातेगन्धरसविपर्य्यये च तोयानाम्। सलिलाशयविकृतौवा महद्भयं तत्र शान्तिरियम्। सलिलविकारे कुर्य्यात्पूजां वरुणस्य वारुणैर्मन्त्रैः। तैरेव च जपहोमं शम-मेवं पापमुपयाति”।

"https://sa.wiktionary.org/w/index.php?title=जलवैकृत&oldid=381676" इत्यस्माद् प्रतिप्राप्तम्