सामग्री पर जाएँ

जलाशयोत्सर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जलाशयोत्सर्ग¦ पु॰

६ त॰। कूपादेर्जलाशयस्य प्रतिष्ठारूपेउत्सर्गे जलाशयोत्सर्गतत्त्वे तस्य भेदलक्षणादिकमुक्तं यथा(
“अथ जलाशयाः। ते च खननसाध्याश्चत्वारः। कूपवापीपुष्करिणीतडागरूपाः। तथाच मत्स्यपुरा-णम्।
“एवमेव पुराणेषु तडागविधिरुच्यते। कूप-वापीतडागेषु तथा पुष्करिणीषु च”। कूपोऽद्वारकोगर्त्तविशेषः वद्धसोपानकोऽयं वापीति द्वैतनिर्णयः। वस्तुतो वापीलक्षणं वक्ष्यते। पुष्करिणीतडागावाहवशिष्ठसंहितायाम्
“चतुर्विंशाङ्गुलोहस्तोधनुस्तच्चतुरुत्तरः। शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता। एतत्पञ्च-गुणः प्रोक्तस्तडागैति निश्चयः”। धनुर्हस्तचतुष्टयंचतुरुत्तरश्चतुर्गुणहस्तोयस्तद्धनुः तथाच विष्णुधर्मो-त्तरे प्रथमकाण्डम्
“द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयञ्चशतः स्मृतः। तच्चतुष्कं धनुः प्रोक्तं क्रोशोधनुः-सहस्रकः”। कापिले
“चतुर्विंशाङ्गुलोहस्तश्चतुर्भिश्चकरैर्धनुः”। शयोहस्तस्तेन खातचतुर्दिक्षु विंशतिहस्ता-न्यूनतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी। चतुर्द्दिक्षु पञ्चचत्वारिंशद्धस्तान्यूनतायां सहस्रद्वितय-हस्तान्यूनान्तरत्वेन तडागः। एतत्तु जलाधारपरंनतूपरितटपरम्। नव्यवर्द्धमानधृतोवशिष्ठः
“शतेनधनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्धिका। चतुर्भि-र्द्रोणः पञ्चभिस्तडागः। द्रोणाद्दशगुणा वापी” इतिसंहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते। तेनचतुर्द्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेस दीर्घिका। चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यून-तायां षोडशशतहस्तान्तरान्यूनत्वे द्रोणः। चतुद्दिक्षुत्रिंशदधिकशतहस्तान्यूनतायां षोडशसहस्रहस्ता-न्तरान्यूनत्वेन वापी। करोऽत्र कफोण्युपक्रममध्य-माङ्गुल्यग्रपर्य्यन्तः तथाच कल्पतरुरत्नाकरयोः
“मध्या-ङ्गुलिकूर्परयोर्मध्यः प्रामाणिकः करः”। तत्करण-फलमाहादित्यपुराणम्
“सेतुबन्धरता ये च तीर्थ-[Page3076-a+ 38] शौचरताश्च ये। तडागकुपकर्त्तारोमुच्यत्ते ते तृषा-भयात्”। सेतुर्जलधारणहेतुर्बन्धः। तीर्थशौचं घट्ट-कपरिष्क्रारःः तेन सेतुबन्धवट्टपरिष्कारतडागादीनांकरणे प्रत्येकं तृड्भयमोचनं फलम्। विष्णुः
“अथ कूप-कर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यतीति”। तत्प्रवृत्ते कूपादुत्थिते। विष्णुधर्मोत्तरे
“तडागकूपकर्त्ता-रस्तथा कन्याप्रदायिनः। छत्रोपानहदातारस्ते नराःस्वर्गगामिनः”। तोयं विना सङ्कुचितप्राणिदेशे तुनन्दिपुराणम्
“योवापीमथवा कूपं देशे तोयविव-र्ज्जिते। खानयेत् स दिवं याति विन्दौविन्दौ शतंसमाः”। ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसमसंख्यशतवर्पावच्छिन्नस्वर्गप्राप्तिः फलम्। एतत्सङ्कल्पा-नन्तरं वास्तुयागसङ्कल्पः कार्य्यः। विष्णुः
“कूपाराम-तडागेषु देवतायतनेषु च। पुनः संस्कारकर्त्ता तु लभतेमौलिकं फलम्”। संस्कारविधौ तु
“अजले जलमुत्-पाद्य” इति वक्ष्यमाणवचनात् जलशून्यदेशखनन एव-प्रतिष्ठा नतु पङ्कोद्धारमात्रे। मत्स्यपुराणे
“प्रासा-दभवनादीनां विशेषं विस्तराद्वद। कुर्यात् केन विधा-नेन कश्च वास्तुरुदाहृतः” इत्युपक्रम्य वाप्यादीनाम-प्यभिधानात् आदिपदात् कूपादेर्ग्रहणम्।
“प्रासादेऽप्ये-वमेव स्यात् कूपवापीषु शस्यते” इत्यभिधानाच्च, तेन वाप्या-दिकरणेऽपि वास्तुयागः। महाकपिलपञ्चरात्रे
“जला-धारग्रहार्थञ्च यजेद्वास्तुम् विशेषतः। व्रह्माद्यदिति-पर्य्यन्ताः पञ्चाशत्त्रयसंयुताः! सर्वेषां कुलवास्तूनांनायकाः परिकीर्त्तिताः। असंपूज्य हि तान् सर्व्वान्प्रासादादीन्न कारयेत्। अनिष्पत्तिर्विनाशः स्यादुभयोधर्मधर्मिणोः”। व्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम्। देवीपुराणोक्तेशादिकल्पोव्यवह्रियते। धर्मधर्मिणोस्तडा-गादितत्कर्त्रोः। तद्दिने तदकरणे उत्सर्गदिनेऽपिवाप्यादौ तत्करणम्।
“प्रासादभवनोद्यानप्रारम्भपरि-वर्त्तने। पुरवेश्मप्रवेशे च सर्वदोषापनुत्तये। इति वास्तू-पशमनं कृत्वा सूत्रेण वेष्टयेत्। वास्तुयागमकुर्ब्बाणस्त-वाहारो भविष्यति”। इति मत्स्यपुराणवचने पुरवेश्म-प्रवेशे वास्तुयागप्राप्तेः पूर्व्वोक्तवचनेन प्रासादधर्म्माति-देशादत्रापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तु-यागकरणम्। तदारम्भकालो दीपिकायामुक्तो यथा
“पुष्या-मैत्रकरोत्तराश्विबरुणब्रह्माम्बुपित्रेन्दुभैः शस्तेऽर्के शुभयोग-तारतिथिषु क्रूरेष्ववीर्य्येपु च। पुष्टेन्दौ जलराशिगे[Page3076-b+ 38] दशमगे शुक्रे शुभांशोदये प्रारम्भः सलिलाशयस्य शुनदोजीवेन्दुपुत्रोदये”। पुष्यानुराधाहस्तोत्तरात्रयाश्विनी-शतभिषारोहिणीपूर्व्वाषाढामघामृगशिरोभिः। मात्स्ये
“चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम्। स्तम्भो-च्छायादि कर्त्तव्यमन्यत्र परिवर्ज्जयेत्। अश्विनीरोहिणी-मूलमुत्तरात्रयमैन्दवम्। स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते। वब्ज्रव्याघातशूले च व्यतीपातातिग-ण्डयोः। विष्कुम्भगण्डपरिघवर्ज्जं योगेषु कारयेत्। आदित्यभौमवर्ज्जन्तु सर्वे वाराः शुभावहाः। प्रासादे-ऽप्येवमेव स्यात् कूपबापीषु चैव हि”। तदुत्सर्गफलम्। (
“संक्षेपात्तु प्रवक्ष्यामि जलदानफलं शृणु। पुष्करि-ण्यादिदानेन विष्णुः प्रीणाति विश्वधृक्”। जलाशय-करणार्थं भूमिदाने फलमाह चित्रगुप्तः
“जलाशयार्थंयो दद्यात् वारुणं लोकमाप्नुयात्”। भूमिमिति शेषः। कालमाह मत्स्यपुराणे
“शृणु राजन्! प्रवक्ष्यामितडागादिषु यो विधिः। चैत्रे वा फाल्गुने वापि ज्यैष्ठेवा माधवे तथा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदाभवेत्। प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे। पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्”। अतीतेप्रवृत्ते तथा च प्रतिष्ठासमुच्चये
“माघे च फालगुने चैवचैत्रवैशाख्वयोरपि। ज्यैष्ठाषाढकयोर्वापि प्रवृत्ते चोत्त-रायणे”। पुण्येऽह्नि अष्टमचन्द्रादिशून्ये ब्राह्मणवाचनंपुण्याहस्वस्त्यृद्धिवाचनम्।
“पञ्चमी च द्वितीया चतृतीया सप्तमी तथा। दशमी पौर्णमासी च तथाश्रेष्ठा त्रयोदशी। आसु प्रतिष्ठा विधिवत् कृता शुभफलाभवेत्”। मात्स्ये
“आषाढे द्वे तथा मूलमुत्तरात्रयमेवच{??} ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा। हस्ता-श्विनी रेवती च पुष्योमृगशिरस्तथा। अनुराधा तथास्वाती प्रतिष्ठादिषु शस्यते। बुधो वृहस्पतिः शुक्रस्त्रयएते शुभावहाः। एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रश-स्यते। ग्रहतारावलं लब्ध्वा ग्रहपूजां विधाय च। निमित्तं सबलं ज्ञात्वा वर्जयित्वा तथाऽशुभम्। शुभयोगेशुभे लग्ने क्रूरग्रहविवर्जिते। लग्ने ऋक्षे च कुर्वीतप्रतिष्ठादिकमुत्तमम्। अयने विषुवे तद्वत् षडशीतिमुखेतथा।
“सुराणां स्थापनं कार्य्यं विधिदृष्टेन कर्मणा”। भविव्ये
“प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा। दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता। सोमोवृहस्पतिश्चैव शुक्रश्चैव तथा बुधः। एते सौम्यग्रहा[Page3077-a+ 38] प्रोक्ताः पतिष्ठायागकर्मणि”। प्रतिष्ठाधिकारे व्यवहार-समुच्चयः
“कृष्णपक्षे च पञ्चम्यामष्टम्यामपि शस्यते”। दीपिकायां
“पुष्याश्विशक्रभगदैवतवासवेषु सौम्यानिलेश-मघरोहिणिमूलहस्तम्। पौष्णानुराधहरिभेषु पुन-र्वसौ च कार्य्याभिषेकतरुकूपरथप्रतिष्ठा”। वसवी धनिष्ठाईश आर्द्रा।
“आर्द्रायाञ्चैव सौभाग्यमिति” प्रतिष्ठासमु-च्चयात्। वापीदानादीनां पूर्त्तत्वात् स्त्रीशूद्राधिकारेजातूकर्णः
“वापीकूपतडागादिदेवतायतनेषु च। अन्नप्रदानमारामाःपूर्त्त इत्यभिधीयते। अग्निहोत्रंतपः सत्यं वेदानामनुपालनम्। आतिथ्यं वैश्वदेवञ्च इष्ट-मित्यभिधीयते। ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधी-यते। इष्टापूर्त्तं द्विजातीनां धर्मः सामान्य उच्यते। अधिकारी भवेच्छूद्रः पूर्त्तधर्मे न वैदिके”। वैदिकेवेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः। एवंस्त्रीणामपि पूर्त्ताधिकारः। यथा नारीत्यनुवृत्तौ वृहस्पतिः
“पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्त्रीयमातु-लान्। पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः” एतेन जलाशयोत्सर्गादौ गोरवतारणानुमन्त्रणयोर्यज-मानकर्त्तृकोमन्त्रपाठः। तत्रामन्त्रकतया स्त्रीशूद्रयोरन-धिकारेण तद्वति त्यागेऽप्यनधिकारः विशेषोपदेशविर-हादिति द्वैतनिर्णयोक्तं निरस्तम्। मन्त्रपाठस्तु ब्राह्मण-द्वारा
“अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति वराहपुराणात्। अमन्त्रस्येति परिभाषया स्त्री-णामप्यधिकारः। अस्य पूर्त्तत्वाद्वृद्धिश्राद्धमप्यादौकर्त्तव्यम्। यथा गोभिलः
“वृद्धिः पूर्त्तेषु युग्मानाशयेत् प्रदक्षिणमुपचारः यवस्तिलार्थ इति”। हयशीर्षपञ्चरात्रे
“वापीकूपतडागानां पश्चिमे यागमण्डपम्। कुर्य्याद्यथाक्रमेणैव कन्यसं मध्यमेत्तमम्। कन्यसं दश-हस्तन्तु कूपे शस्तं तथा नघ। द्विषट्कं कारयेद्वाप्यांपुष्करिण्यां चतुर्द्दश। द्विरष्टहस्तं कुर्वीत तडागमण्डपंशुभम्”। कन्यसङ्कनीयांसम्। सङ्कल्पविधिस्तु भविष्ये
“गृहीत्वौडुम्बरं पात्रं वारिपर्णमुदङ्मुखः। दर्भत्रयंसाग्रमूलं फलपुष्पतिलान्वितम्। जलाशयारामकूपेसङ्कल्पे पूर्वदिङ्मुखः साधारणे। चोत्तरास्य ऐशान्यांतज्जलं क्षिपेत्”। मत्स्यपुराणे
“प्रागुदक्प्लवनेदेशे तडागस्य समोपतः। चतुर्हस्तां शुभां वेदीं चतु-रस्रां चतुर्मुखीम्”। कारयेदिति शेषः। तथा
“सर्वतःसमवर्णाः स्युः पताकाध्वजसंयुताः”। समवर्णा वक्ष्यमाण-[Page3077-b+ 38] लोकपालवर्णाः
“अश्वत्थेडुम्बरप्लक्षवटशाखाकृतानि च। मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्”। तथा
“कुल-शीलसमापन्नः स्थापकः स्याद्द्विजोत्तमः”। स्थापक आ-चार्य्य इति रत्नाकरः। तथा
“सौवर्णौ कुर्ममकरौराजतौ मत्स्यडुण्डुभौ। ताम्रौ कुलीरमण्डकावायसःशिशुमारकः। एवमासाद्य तान् सर्वानादौ चेव विशा-म्पते!। शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। सर्वौ-षध्युदकस्नानस्नापितोवेदपुङ्गवैः। यजमानः सपत्नीकःपुत्रपौत्रसमन्वितः। पश्चिमं द्वारमाश्रित्य प्रविशेद्-यागमण्डपम्। ततोमङ्गलशब्देन भेरीणाञ्च स्वनेन च। रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित्। षोडशारंभवेच्चक्रं पद्मगर्भं चतुर्मुखम्। चतुरस्रन्तु परितोवृत्तं मध्येगुणोत्तरम्। वेद्याश्चोपरि तत्कृत्वा ग्रहां ल्लोकपतींस्तथा। विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः। झषादीन्स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः” झषादीन्। कूर्मादीन्।
“ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापये-द्बुधः। विनायकन्तु विन्यस्य कमलामम्बिकान्तथा”। पूजयेदिति शेषः। मत्स्यपुराणम्
“नवग्रहमखं कृत्वातबः कर्म समारभेत्। अन्यथा फलदं पुंसां न काम्यंप्राप्यते क्वचित्”। ततः कर्म्मशेषस्तत्रैव दृश्यः।
“जलाशयोत्सर्गस्य सर्वभूतोद्देश्यकत्वेन प्रकृष्टचेतनोद्दे-श्यकत्ववदप्रकृष्टचेतनोद्देश्यकत्यागत्वमपि ततश्च कीटादे-र्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनकत्यागरूपत्वादस्य यागत्वम्। अतएव जलाशयोत्सर्ग-मुपक्रम्य मत्स्यपुराणेऽपि
“प्राप्नोति तद्यागबलेन भूय” इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्वत्वदूरीकरणेननद्यादिवत् साधारणीकृवम् अतएव‘ मामान्यं सर्वभूतेभ्यो-मया दत्तमिदं जलम्। रमन्तु सर्वभूतानि स्नानपानाव-गाहनैः’ इति मन्त्रलिङ्गेनोपादानं विना कस्यापिस्वत्वमिति। ततश्चान्ययागवदुत्तरप्रतिपत्तेरश्रुतत्वात्साधारणजलस्य परिग्रहमात्रेण गोतमोक्तेन दातुःस्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामित्वात्तत्र स्नाना-दावदोषः। तथाच गोतमः‘ स्वामी ऋक्थक्रयमंविभाग-परिग्रहाधिगमेषु ब्राह्मणस्यार्त्विज्यं लब्धं क्षत्रियस्यविजितं निर्विष्टं वैश्यशूद्रयोः” इति परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्ठादेः स्वीकार इति मिताक्षरा’।

"https://sa.wiktionary.org/w/index.php?title=जलाशयोत्सर्ग&oldid=382127" इत्यस्माद् प्रतिप्राप्तम्