जातकचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जातकचक्रम्¦ ज्यो॰ उक्ते जातस्य शुभाशुभसूचके चक्रभेदेतच्च चक्रं ज्यो॰ त॰ उक्त यथा(
“युद्धजयार्णवे यस्मिन्नृक्षे स्थितोभानुस्तदादित्रीणिमस्तके। मुखे त्रीणि तथा द्वे भे स्कन्धयोर्भुजयोरुभे। द्वे हस्तयोः पञ्च हृदि नाभावेकं तथा गुदे। तथा जानु-युगे द्वेद्वे पादयोर्जलधिं
४ न्यसेत्। चरणर्क्षेषु यो जातःसोऽल्पायुर्भवति प्रिये!। जानुनोर्भ्रमणाशक्तो गुह्ये-स्यात् पारदारिकः। नाभौ स्वल्पधनो देवि। हृदयेस्यान्महाधनः। पाण्योर्जातो भवेच्चौरो भुजयोर्दुःख-भाजनम्। स्कन्धयोर्भोगभोगी च मुखे धर्मरतो धनी। मूर्द्ध्नि राजा भवेद्देवि! वालानां जन्मतोवदेत्”। स्वरो-दये।
“मुखे शीर्षे शतं वर्षं नवतिः स्कन्धयोर्द्वयोः। पञ्चा-पीतिहृदि प्रोक्ता हस्तयोः सप्ततिः क्रमात्। बाह्वोःषट्षष्तिवर्षाणि गुह्ये षटषष्टिका क्रमात्। पञ्चाशत्जङ्घयोः पादे निर्द्धनश्चाल्पजीवनः”।
