सामग्री पर जाएँ

जातकर्म्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जातकर्म्मन्¦ न॰ जाते कर्म। पुत्रजन्मनिमित्ते पितृकर्त्तव्येपुत्रसस्कारभेदे। तच्च आश्व॰ गृ॰

१ ।

१५ ।

१ दर्शितं यथा। (
“कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनीहिरण्यनिकाषं हिरण्येन प्राशयेत्
“प्र ते ददामि मधुनीघृतस्य वेदं सवित्रा प्रसूतं मघोनाम्। आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मि-न्निति”। सू॰।
“इदं जातकर्म। कुमारग्रहणं कुमारी-निवृत्त्यर्थम। ननु कुमार्य्या अपि भवत्येव जातकर्म। कुतः। वक्ष्यति
“आवृतैव कुमार्याः” इति, उच्यते। प्रवा-सादागतस्य विहितं कर्मावृता भवति न जातकर्मअनन्तरत्वात्। एवमेके अन्ये पुरनरावृतैव कुमार्याइत्येतदुभयार्थमिति वदन्ति। तेन कुमार्या अपिजातकर्म भवति। मनुनाप्युक्तम्
“अमन्त्रिकातु कार्य्येयं स्त्रीणामावृदशेषतः” इति। तहिकुमारग्रहणं किमर्थम्? अधिकारार्थम्।
“अष्टमे वर्षेब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात्न कुमार्या इति। ननु ब्राह्मणमिति पुंलिङ्गनिर्देशा-देव न भविष्यति। न जातिनिर्देशे लिङ्गमविव-क्षितम्। यथा ब्राह्मणो न हन्तव्य इति ब्राह्मण्यपि[Page3091-b+ 38] न हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थंकुमारग्रहणमिति। जातग्रहणमप्यधिकारार्थम्।
“गो-दानं षोडशे वर्षे” इति जन्मतः प्रभृतिषोडशोयथा स्यात्उपनयनप्रभृति मा भूदिति। पुरा पूर्वमित्यर्थः अन्य-ग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्त्तव्यमित्येव-मर्थम्। सर्पिर्मधुनी हिरण्येन निकाशयति। ते हिरण्य-संसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं
“प्र तेददामीति” मन्त्रेण नारा॰ वृ॰। (
“कर्णयोरुपनिधाय मेधाजननं जपति।
“मेधान्तेदेवः सविता मेधां देवी सरस्वती। मेधान्ते अश्विनौदेवावाधत्तां पुष्करस्रजौ”। सू॰
“अस्य कर्णयोः हिरण्यंनिधाय मेधाजननं जपति मेधान्त इति। उपग्रहणंतस्य मुखसमीपे आत्मनोमुखं निधाय जपार्थं मेधाजननमित्यस्य मन्त्रस्याख्या सकृन्मन्त्रः। पर्यायेणोप-निधानमित्येके। अन्ये मन्त्रावृत्तिमिच्छन्ति” नारा॰
“गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिवन्धनैः। प्राङ्-नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते” मनुः।
“नाभिवर्द्धनात् नाभिसम्बन्धात् नाडीच्छेदनात्। वैज-वापिः
“जन्मनोऽनन्तरं कार्य्यं जातकर्म यथाविधि। दैवादतीतः कालश्चेत् अतीते सुतके भवेत्”। एवञ्च,
“मृदुध्रुवचरक्षिप्रभेष्वेषामुदयेऽपि वा। गुरौ शुक्रेऽथ वाकेन्द्रे जातकर्म्म च नाम च” इति ज्योतिःशास्त्रोक्तेर्दैवात् कालोत्कर्षे वेदितव्यम्। अनुत्कर्षेऽपि नक्षत्रादि-नियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरव-काशत्वात् ज्यो॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=जातकर्म्मन्&oldid=383131" इत्यस्माद् प्रतिप्राप्तम्