सामग्री पर जाएँ

जातिधर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जातिधर्म्म¦ पु॰

६ त॰। ब्राह्मणादी{??}ं धर्मभेदे। स चभा॰ शा॰

६० अ॰ दर्शितो यथा(
“व्राह्मणस्य तु यो धर्मस्तन्ते वक्ष्यामि केवलम्। इममेव महाराज! धर्ममाहुः पुरातनम्। स्वाध्यायाभ्य-सनञ्चैव तत्र कर्म समाप्यते। तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानंस्वस्वकर्मणि। अकुर्व्वाणं विकर्म्माणि शान्तं प्रज्ञानतर्पि-ताम। कुर्व्वीतापत्यसन्तानमथो दद्याद्यजेत च। संविभज्यहि भोक्तव्यं धनं सद्भिरितीर्य्यते। परिनिष्ठितकार्य्यस्तु[Page3106-a+ 38] स्वाध्यावेनैव ब्राह्मणः। कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रोब्राह्मण उच्यते। क्षत्त्रियस्यापि यो धर्मस्तन्ते वक्ष्यामिभारत!। दद्याद्राजन्न याचेत यजेत न च याजयेत्। नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तोदस्युबधे रणे कुर्य्यात् पराक्रमम्। ये तु क्रतुभिरीजानाःश्रुतवन्तश्च भूमिपाः। य एवाहवजेतारस्त एषां लोक-जित्तमाः। अविक्षतेन देहेन समराद्यो निवर्त्तते। क्षत्त्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः। एवं हिक्षत्त्रबन्धूनां मार्गमाहुः प्रधानतः। नास्य कृत्यतमंकिञ्चिदन्यद्दस्युनिवर्हणात्। दानमध्ययनं यज्ञो राज्ञांक्षेमं विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्म-मीप्सता। स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्व्वा महीपतिः। धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् परिनिष्ठितकार्य्यस्तु नृपतिः परिपालनात्। कुर्य्यादन्यन्न वाकुर्य्यादैन्द्रो राजन्य उच्यते। वैश्यस्यापि हि यो धर्म-स्तन्ते वक्ष्यामि शाश्वतम्। दानमध्ययनं यज्ञः शौचेनधनसञ्चयः। पितृवत् पालयेद्वैश्यो युक्तः सर्व्वान् पशू-निह। विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत्। रक्षया स हि तेषां वै महत् सुखमवाप्नुयात्। प्रजा-पतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्। ब्राह्मणाय चराज्ञे च सर्वाः परिदददे प्रजाः। तस्य वृत्तिं प्रवक्ष्यामियच्च तस्योपजीवनम्। षण्णामेकां पिबेद्धेनुं शताच्च मिथुनंहरेत्। लब्धाच्च सप्तमं भागं तथाऽशृङ्गे कलाऽखुरे। शस्यानि सर्ववीजानामेषा सांवत्सरी भृतिः। न चवैश्यस्य कामः स्यान्न रक्षेयं पशूनिति। वैश्यो चेच्छतिनान्येन रक्षितव्याः कथञ्चन। शूद्रस्यापि हि यो धर्म-स्तन्ते वक्ष्यामि भारत!। प्रजापतिर्हि वर्णानां दासंशूद्रमकल्पयत्। तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधी-यते। तेषां शुश्रूषणाच्चैव महत् सुखमवाप्नुयात्। शूद्र एतान् परिचरेत्त्रीन् वर्णाननुपूर्वशः। सञ्चयाश्च नकुर्व्वीत जातु शूद्रः कथञ्चन। पापीयान् हि धनं लब्ध्वावशे कुर्य्याद्गरीयसः। राज्ञा वा समनुज्ञातः कामंकुर्वीत धार्मिकः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योप-जीवनम। अवश्यभरणीयो हि वर्णानां शूद्र उच्यते। छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च। यातयामानिदेयानि शूद्राय परिचारिणे। अधार्याणि विशीर्णानिवसनानि द्विजातिभिः। शूद्रायैव प्रदेयानि तस्य धर्मधनंहि तत्। यच्च किञ्चिदुद्विजातीनां शूद्रः शुश्रूषुराव्रजेत्। [Page3106-b+ 38] कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः। देयःपिण्डोऽनपत्याय भत्तेव्यौ वृद्धदुर्बलौ। शूद्रेण तु नहातव्यो भर्त्ता कस्याञ्चिदापदि। अतिरेकेण भर्त्तव्योभर्त्ता द्रव्यपरिक्षये। न हि स्वमस्ति शूद्रस्य भर्तृहार्य्य-धनो हि सः। उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य चभारत!। स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते। तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान् स्वयम्। पूर्णपात्र-मयीमाहुः पाकयज्ञस्य दक्षिणाम्। शूद्रः पैजवनो नामसहस्राणां शतं ददौ। ऐन्द्राग्न्येन विधानेन दक्षिणा-मिति नः श्रुतम्। यथा हि सर्ववर्णानां यज्ञस्तस्यैवभारत!। अग्र्यः सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते। दैवतं हि महच्छ्रद्धा पवित्रं यजताञ्च यत्। दैवतं हिपरं विप्राः स्वेन स्वेन परस्परम्। अयजन्निह सत्रैस्तेतैस्तैः कामैः समाहितैः। संसृष्टा ब्राह्मणैरेव त्रिषुवर्णेषु सृष्टयः। देवानामपि ये देवा यद्ब्रुयुस्ते परंहितम्। तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया। ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्धिजः। ” सङ्कीर्णजातिधर्म्मस्तु मन्वाद्युक्तो जातिशब्दे दर्शितः
“उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः” गीता।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जातिधर्म्म¦ m. (-र्म्मः)
1. The duty of caste, as sacred study of the Brah- [Page288-a+ 60] man, battle of the Kshetriya, &c.
2. Generic or specific property. E. जाति, and धर्म्म duty.

"https://sa.wiktionary.org/w/index.php?title=जातिधर्म्म&oldid=383495" इत्यस्माद् प्रतिप्राप्तम्