जातिशक्तिवाद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जातिशक्तिवाद¦ पु॰ जातौ शक्तेर्वादः। शब्दानां जातौशक्तिसमर्थके कथाभेदे स च वादः शब्दशक्तिप्र॰ पूर्वपक्षविधया दर्शितो यथा(
“ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयना-देरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिंप्रत्ये व हेतुत्वात् सुवर्थकर्मत्वादौ स्वाश्रयवृत्तित्वसम्बन्धेनैवप्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेनवोधस्तूत्तरकालनाक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-त्वात्, आनयनं गोवृत्तिकर्मताकं गोत्ववृत्तिकर्मताकत्वा-दित्थाद्यनुमानसाम्राज्यात्। न च वस्तुगत्या यद्गोत्वशक्तत्वंतज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवंग्रहादपिशुद्धगोत्वस्यान्वयबोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारक-ज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारक-ज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यमवेशादितिवाच्यं गोपदंगोत्वशक्तमित्याकारकज्ञानत्वेन हेतुतायां शुद्धस्येव गोत्वस्य[Page3107-b+ 38] विषयतासम्बन्धेन शक्त्यंशे विशेषणत्वेन गोत्वत्वादिप्रवेश-गौरवस्यायोगात्। न हि समवायान्यसम्बन्धेन जातेःप्रकारतायां धर्म्मावच्छिन्नत्वनियमो मानाभावात् अयंगौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्यज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्राग-नुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात्। एतेन जाते-र्निरवच्छिन्नप्रकारत्वस्य समवायसंसर्गावच्छिन्नत्वनियमात्केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुवर्थकर्मत्वांशे चपरम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्, उक्तस्थलएव व्यभिचारात्। न चैवं कालोगौः पदं गौरित्यादि-प्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमतितत्प्रकारकत्वादिति वाच्यं कालिकादिसम्बन्धेन गोत्वादेःप्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेःप्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्व-मते संयोगो घट इत्यादिप्रतीतेः समवायेन प्रमात्वस्यदुर्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादि-वोधस्य नियमतोगवाद्यभेदावगाहित्वेनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्त्तिनः। ” जातिशक्तिवादिप्रभाकरमतं च तत्रैवोक्तं यथा(
“प्राभाकरास्तु गोत्वशक्तत्वेन ज्ञातं पदं ताद्रूप्येणगोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्नगोत्वेन गवयादेः न वा द्रव्यत्वादिना गोरन्वयधियोऽति-प्रसङ्गः। नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकंन हि गवादिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्द-धीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टमिति वाच्यगवादिपदधर्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनक-तावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्त-तापेक्षएया गोशक्तत्वस्य गुरुतवा तज्ज्ञानत्वस्य गोशाब्दंप्रति जनकतानवच्छेदकत्वात्। अतवान्वयबुद्धेरात्म-स्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्यत्वम्। अस्तु वागोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नंप्रत्येव हेतुर्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्यनियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिवगवादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमका-भावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्द-त्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य च द्वयोःकारणतायामेव लाघवात्, वस्तुतोगोत्वशाब्दं प्रति गोत्व-शक्तिज्ञानमेव हेतुर्न तु गोत्वमपि जातिव्यक्त्योस्तुल्य-[Page3108-a+ 38] वित्तिवेद्यत्वनियमादेव गोव्यक्तीनान्तद्विषयत्वसिद्धेः प्रमाण-विरहादेव गोत्वादिना गबयादिविषयत्वस्य तत्रासिद्धेश्च। यद्यपि जातेर्विषयत्वं तत्समवायिव्यक्तिविषयतानिरूपित-मिति न व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधेच व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथा-त्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जाना-मीत्याकारे तथात्वात् तथाप्यन्वयबोधस्य निरवच्छिन्नगोत्वा-दिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्ता-दृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबोधेनास्पर्श-नात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात्। अत-एव गवाद्यंशे गोत्वादिप्रकारकोबोधः समवायेनेव सम्बन्धा-न्तरेणापि तत्प्रकारकः स्याद्गोत्वशक्तिज्ञानस्य तदीयसम्ब-न्धभानं प्रत्युदासीनत्वादित्यपि प्रत्युक्तं शाब्दमतेः शुद्ध-गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्न-त्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्यप्रमाणविरहेणासिद्धेः। एवञ्च गोत्वादिशक्तिज्ञानत्वेनजनकतायां विषयतयावच्छेदकत्वाद्गोत्वादिरेव गवादिपद-स्यार्थः गवादौ तद्व्यवहारस्तु तादृशावच्छेदकधर्मवत्त्वप्रयु-क्तोगौणः। नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादि-धातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेःसंस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यव-च्छिन्नक्रियात्वाद्युपाधिरूपे च तत्र स्वरूपतः शक्तिग्रहा-योगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्त-क्रिवात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतयातादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचि-त्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादि-धातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च। पश्वादिपदानामपिलोमवल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र-वृत्तिग्रहोत्तरं तन्मात्रस्यैवानुमवेन तदाश्रयस्यालाभात्लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान्देश इत्याद्यनुभवे व्यभिचारादितिप्राहुः। ” नैयायिकास्तु तदेतन्मतं पूर्वपक्षविधया व्यक्त्यादीनां केव-लानां शब्दवाचतां निराकृत्य जातिविशिष्टस्यैव शक्यत्वंव्यवस्थापितं यथा गौ॰ सूत्रे तद्भाष्ये च।
“तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः। ” सू॰
“अविनाभाववृत्तिः सन्निधिः अविनाभावेन वर्त्तमानासुव्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते[Page3108-b+ 38] किमन्यतमः पदार्थः उत सर्व इति। शब्दस्य प्रयोगसा-मर्थ्यात्पदार्थावधारणम् न य्यात्” भाष्यम्। (
“याशब्दसमूहत्यागपरिग्रहसंख्यावृद्धुपचयवर्णसमासा-नुबन्धानां व्यक्तावुपचाराद्व्यक्तिः” सू॰
“व्यक्तिः पदार्थः कस्मात् याशब्दप्रभृतीनां व्यक्तावुपचा-रादुपचारः प्रयोगः। या गौस्तिष्ठति या गौर्निषर्ण्णतिनेदं वाक्यं जातेरभिधायकमभेदात् द्रव्याभिधायकम्,गवां समूह इत्यभेदात् द्रव्याभिधामं न जातेरभेदात्, वै-द्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमूर्त्तत्वात्प्रतिक्रमानुक्रमानुपपत्तेश्च। परिग्रहः स्वत्वेनाभिसम्बन्धः,कौण्डिन्यस्य गौ र्ब्राह्मणस्य गौरिति द्रव्याभिधाने द्रव्य-भेदात् सम्बन्धभेद इति उपपन्नमभिन्ना तु जातिरिति,सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्ख्यायतेन जातिरभेदादिति, वृद्धिः कारणवतो द्रव्यस्यावयवोप-चयः अवर्द्धत गौरिति निरवयवा तु जातिरिति, एते-नापचयो व्याख्यातः। वर्णः शुक्ला गौः कपिला गौरितिद्रव्यस्य शुक्लादियोगो न सामान्यस्य, समासः गोहितंगोसुखमिति द्रवस्य सुखादियोगो न जातेरिति। अनुबन्धःसरूपप्रजननसन्तानोगौ र्गां जनयतीति तदुत्पत्तिधर्मत्वाद्-द्रव्ये युक्तं न जातौ विपर्य्ययादिति। द्रव्यं व्यक्तिरिति हिनार्थान्तरम्, अस्य प्रतिषेधः। ” भा॰
“न तदनवस्थानात्” सू॰(
“न व्यक्तिः पदार्थः। कस्मादनवस्थानात् याशब्दप्रभृ-तिभिर्यो विशेष्यते स गोशब्दर्थो या गौस्तिष्ठति यागौर्निषर्ण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधी-यते, किन्तर्हि जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थःएवं समूहादिषु द्रष्टव्यम्। यदि न व्यक्तिः पदार्थः कथंतर्हि व्यक्तावुपचार इति। निमित्तादतद्भावेऽपि तदुप-चारो दृश्यते खलु” भा॰।
“सहचरणस्थानतादर्य्यवृत्तमानधारणसामीप्ययोगसाध-नाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाट-कान्नपुरुषेष्वतद्भावेऽपि तदुपचारः” सू॰
“अतद्भावेऽपितदुपचार इत्येतच्छब्दस्य तेन शब्देनाभि-धानमिति, सहचरणात् यष्टिका भोजयेति यष्टिकासह-चरितो ब्राह्मणोऽभिधीयेत इति, स्यानात् मञ्चाः क्रोश-न्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादर्थ्यात् कटार्थेषुवीरणेषु व्यूह्यमानेषु कटङ्करोतीति, वृत्तात् यमो राजाकुवेरो राजेति तद्वद्वर्त्तत इति, मानात् आढकेन मिताःसक्तवः आढकसक्तव इति धारणात् तुलया धृतं चन्द्रनं[Page3109-a+ 38] तुलाचन्दनमिति, सामीप्यात् गङ्गायां गावश्चरन्तीतिसन्निकष्टोदेशोऽभिधीयते योगात् कृष्णेन रागेण युक्तःशाटकः कृष्ण इत्यभिधीयते, साधनात् अन्नं प्राणा इति। आधिपत्यात् अयं पुरुषः कुलं अयं गोत्रमिति तत्रायंसहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यत इतियदि गौरित्यस्य पदस्य न व्यक्तिरर्थोऽस्तु तर्हि। ” भा॰
“आकृतिस्तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः” सू॰
“आकृतिः पदार्थः कस्मात् तदपेक्षत्वात् सत्वव्यवस्थान-सिद्धेः। सत्वावयवानां तदवयवानाञ्च नियतोव्यूहआकृतिः तस्यां गृह्यमाणायां सत्वव्यवस्थानं सिध्यतिअयं गौरयमश्व इति नागृह्यमाणायाम्, यस्य ग्रहणात्सत्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति सोऽ-स्थार्थ इति नैतदुपपद्यते तस्य जात्या योगस्तदत्र जाति-विशिष्टमभिधीयते गौरिति। नचावयवव्यू हस्य जात्यायोगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य, तस्मान्ना-कृतिः पदार्थः। अस्तु तर्हि जातिः पदार्थः” भा॰(
“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृद्गवकेजातिः” सू॰
“जातिः पदार्थः, कस्मात् व्यक्त्याकृतियुक्तेऽपि मृद्गवकेप्रोक्षणादीनामप्रसङ्गादिति। गां प्रोक्षय गामानय गांदेहीति नैतानि मृद्गवके प्रयुज्यन्ते कस्मात् जातेरभा-वात्। अस्ति हि तत्र व्यक्तिरस्त्याकृतिः यदभावात्तत्रासम्प्रत्ययः स पदार्थ इति। ” भा॰
“नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः” सू॰
“जातेरभिव्यक्तिराकृतिव्यक्ती अपेक्षते नागृह्यमाणाया-माकृतौ व्यक्तौ जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिःपदार्थः इति। न वै पदार्थेन न भवितुं शक्यम् कःखल्विदानीं पदार्थ इति” भा॰
“व्यक्त्याकृतिजातयस्तु पदार्थः” सू॰
“तुशब्दो विशेषणार्थः। किं विशिष्यं प्रधानाङ्गभाव-स्यानियमेन पदार्थत्वमिति। यदा हि भेदविवक्षा विशे-षगतिश्च तदा व्यक्तिः प्रधानमङ्गन्तु जात्याकृती। यदा तुभेदोऽविवक्षितः सामान्यगतिस्तदा जातिः प्रधानमङ्गन्तुव्यक्त्याकृती स्वीकृते तदेतद्बहुलं प्रयोगेष्वाकृतेस्तु प्रधा-नभाव उत्प्रेक्षितव्यः। कथं पुनर्ज्ञायन्ते नानाव्यक्त्या-कृमिजातय इति लक्षणभेदात् तत्र तावत्” भा॰
“व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः” सू॰
“व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति न सर्वं द्रव्यं[Page3109-b+ 38] व्यक्तिः। यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्व-द्रव्यत्वसंस्काराणामव्यापिनः परिमाणस्याश्रयो यथासम्भवंतदुद्रव्यम्, मूर्त्तिः मूर्च्छितावयवत्वादि” भा॰
“आकृतिर्ज्जातिलिङ्गाख्या” सू॰
“यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृतिंविद्यात्। सा च नाना सत्वानां तदवयवानाञ्च नियतव्यूहादिति नियतावयवव्यूहाः खलु सत्वावयवा जातिलिङ्गं शिरसा पादेन न गामनुमित्सन्ति। नियते तुसत्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति। अना-कृतिव्यक्तिकायां जातौ मृत्सुवर्णं रजतमित्येवमादिष्वा-कृतिर्निवर्त्तते जहाति पदार्थत्वमिति” भ॰
“समानप्रसवात्मिका जातिः” सू॰
“या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु यथा बहू-नीतरेतरतो न व्यावर्त्तन्ते योऽर्थोऽनेकत्र प्रत्ययानुवृत्ति-निमित्तं तत् सामान्यम्। यच्च केषाञ्चिद्भेदं कुतश्चिद्भेदंकरोति तत् सामान्यविशेषो जातिरिति” भा॰शब्दशक्तिप्रकाशिकायामपि तदेतन्मतं समर्थितं यथा
“जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रेहि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्”
“यन्नाम जात्य-वच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्राःसा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभि-धत्ते न तु गोत्रादिजातिमात्रं गोपदं गोत्वे सङ्केतित-मित्याकारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवादेरन्व-यानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात्” ततःपरं प्राक्दर्शितं भट्टमतं प्रदर्श्य दूषितं यथा
“विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानय-नादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्ध-गोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्य-नुपस्थित्या च गोत्वं गच्छतीत्याद्यनुभवस्यासम्भवात्स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौसाक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेणदुःशकत्वाच्च। एतेन कर्मत्वादौ गोत्वादेः स्वाश्रय-वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वंगोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामि-त्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादि-व्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यांशाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दा-नुपपत्तिभ्यां सम्भय तथाविधौपादानिकबोधस्य जनना-[Page3110-a+ 38] थोगाच्च। यत्तु गौर्ज्जायते गौर्नश्यति सर्वत्र गोत्वादि-जातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टाव्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्रशक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीज-त्वात् यदाहुर्मण्डनाचार्य्याः
“जातेरस्तित्वनास्तित्वे नहि कश्चिद्विवक्षति। नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हिविशेषणे” इति तदपि तुच्छं व्यक्तिविनाकृतायां गोत्वादि-जातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वेतद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्ध-स्यैव लक्षणात्वात्। न च गोरन्यो महिष इत्यादौपञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेनशुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्य-प्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वा-वच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात्अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्ति-द्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधी-प्रकारतायाः समवायावच्छिन्नत्वनियमात्तस्यावधित्वादौस्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटः एव द्रव्यं घटइत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नाना-त्वोपगमादिति”। ततः परं प्रागुपदर्शितं प्राभाकरमतमुत्थाप्य दूषितं यथा(
“शाब्दमतेर्गवादिव्यक्त्यवगाहित्वमवश्यङ्कारणप्रयोज्यंजन्यधीविषयतायास्तत्प्रयोज्यत्वनियमादन्यथा पक्षधर्मिकसाध्यावगाहितादेरपि परामर्शादिप्रयोज्यता न स्यादनु-मित्यादि सामान्यं प्रत्येव ज्ञानत्वादिना हेतुत्वस्य लाघवे-नौचित्यात् पक्षतादिसहकृतपरामर्शाद्युत्तरज्ञानस्य तत्प्रकाशस्यैव वा पक्षे साध्यावगाहित्वनियमादेवानुमित्यादेःप्रतिनियतपक्षाद्यवगाहित्वसिद्धेः। किञ्च गोत्वशक्यत्वंन गोत्वसमर्थत्वं यस्य धीरन्वयधीहेतुरप्रसिद्धत्वात् नापितद्गोचरमभिधानामकं पदार्थान्तरं तत्र मानाभावात् नवा गोत्वानुभवजनकत्वं पटादिपदस्यापिं गोत्वशक्यत्वाप-त्तेस्तस्यापि गवादिपदाकाङ्क्षादिसाचिव्येन गोत्वानुभव-जनकत्वात् न च गोत्वानुभवसामान्यं प्रति हेतुत्वन्तथागवादिपदेऽप्यसत्त्वात् नापि गोत्वानुभवजनकत्वप्रकारक-नित्यसङ्केतवत्त्वं तादृशसङ्केतवत्त्वमात्रं वा गोत्वशक्तत्व-मिति साम्प्रतं, गोपदं गोत्वेन गवानुभवस्य जनकतयान सङ्केतितमित्यादिग्रहेऽपि तस्य ग्रहाद्गोत्वेन गो-रन्वयधीप्रसङ्गात् किन्तु गोत्वेन गवानुभवस्य जनकतया[Page3110-b+ 38] सङ्केतितत्वं तथा, तथा च पदधर्मिकतज्ज्ञानत्वेनगोत्वप्रकारकशाब्दं प्रति हेतुतायां गोत्वस्येव तद्विशिष्टस्यगोरपि विषयविधयावच्छेदकत्वादवश्यं गोत्वादिविशिष्टोगवादिर्गवादिपदस्यार्थः”।
