सामग्री पर जाएँ

जातेष्टिन्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जातेष्टिन्याय¦ पु॰ जैमिनिप्रदर्शिते पितृकृतेष्ट्या पुत्रगत-फलसूचके एकस्य काम्यत्वनैमित्तिकत्वसूचके न्यायभेदेस च न्यायो जै॰ प्रथमस्य चतुर्थे पादे यथा। ( काम्येष्टिकाण्डे श्रूयते।
“वैश्वानरं द्वादशकपालंनिर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवेनंब्रह्मवर्च्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिंस्तेजोदधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं, यदेकादशपाल-स्त्रिष्टुभैवास्मिन्निन्द्रियमादधाति यद्द्वादशकपालो जगत्यै-वास्मिन् पशून् दधाति यस्मिन् जाते एतामिष्टिं निर्व-पति स एव पूतो बलवान् तेजस्वी अन्नाद इन्द्रियावीपशुमान् भवतीति”। अत्राष्टादिसंख्यासामान्यात् पुरो-डाशादीनां गायत्र्यादिरूपताकल्पना कृता द्वादशकपालेषुया संख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात् संख्यां निमि-त्तीकृत्याग्निहोत्रादिशब्दवत् अष्टाकपालादिशब्दाः कर्म्म-नामधेयानीत्येकः पक्षः। अयमनुपपन्नः तथा हि द्वादशकपालादिशब्दा न संख्यापराःकिन्तु पुरडाशद्रव्यपराः द्वादशकपालेषु संस्कृत इति व्युत्पत्तेःएवमष्टाकपालादिशब्दादयोऽपि तथा सति नामधेयस्यनिमित्तत्वं नास्तीति चेत् पुरोडाशद्रव्यरूपगुणो विधीयतांन च द्वादशकपालं निर्वपेदित्युत्पत्तिविधिशिष्टद्वादशपुरो-डाशविरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यं व्रह्म-वर्च्चसादिविशेषफलाय तद्विधीनामुपपत्तेरित्यपरः पक्षः। ( अयमपि पक्षोऽनुपपन्नः अनेकगुणविधौ वाक्य-भेदापत्तेः न च भिन्नान्थेव वाक्यानि, द्वादशकपालंनिर्वपेदिति विहितयागस्य यस्मिन् जाते एतानित्युप-मंहारेण एकवाक्यत्वावगमात् द्वादशकपाल इतीष्टेर्नाम-धेयमिष्टिरंशी अष्टाकपालादिभिरंशैः स्तूयत इतिसिद्धान्तः पक्षः। अत्र च पुत्रजन्मनिश्चयः, पुत्रस्य पूतत्वा-दिफलकामना चेति संवलिताधिकारः काम्यनैमित्तिकत्वात् अतः केवलपुत्रजन्मरूपनिमित्तनिश्चयवतः केवलपुत्रपतत्वादिकामनावतो वा नाधिकार इति सुधीभिर्विभावनीयम्” तत्त्वबो॰। अनेन न्यायेन अन्यकृतकर्म्मणा अन्यस्य फलसाधनता-ऽपि सूचिता यथा पुत्रकृतश्राद्धेन पितुः स्वर्गादि फलंजन्यते एवं पितृकृतेष्ट्या पुत्रगतपूतत्वादिफलसिद्धिः। [Page3112-b+ 38] अतएव हेमाद्रिणा श्राद्धकल्पे अयमेव न्यायः पुत्रकृ-तश्राद्धेन पितुरुपकारकत्वे दृष्टान्तयोक्तः।

"https://sa.wiktionary.org/w/index.php?title=जातेष्टिन्याय&oldid=383776" इत्यस्माद् प्रतिप्राप्तम्