जालम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम्, क्ली, (जल्यते आच्छाद्यतेऽनेनेति । जल- संवरणे + करणे घञ् । यद्बा, जले क्षिप्यते इति । जल + “शेषे ।” ४ । २ । ९२ । इत्यण् ।) स्वनामख्यातसूत्रादिनिर्म्मितमत्स्यादिघारणो- पायः । तत्पर्य्यायः । आनायः २ । इत्यमरः । ३ । ३ । १९९ ॥ जालकम् ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ । “वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”) गवाक्षः । (यथा, रघुः । ६ । ४३ । “प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥”) क्षारकः । स तु अस्फुटकलिकाकुष्माण्डादि- क्षुद्रफलञ्च । दम्भः । समूहः । इति मेदिनी । ले, १९ ॥ (यथा, रघुः । ७ । ६२ । “ततो धनुष्कर्षणमूढहस्तं एकांशपर्य्यस्तशिरस्त्रजालम् ॥” वंशलौहादिनिर्म्मितजालवद्द्रव्यविशेषः । यथा, भट्टिः । १ । ८ । “अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः ॥”) इन्द्रजालम् । इति हेमचन्द्रः । ३ । ५९० ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम् [jālam], 1 A net, snare.

(a) A web, cob-web. (b) Any woven texture.

A coat of mail, a helmet made of wire.

An eye-hole, lattice, window; जाला- न्तरप्रेषितदृष्टिरन्या R.7.9; धूपैर्जालविनिः सृतैर्वलभयः संदिग्धपारा- वताः V.3.2; Ku.7.6.

A collection, an assemblage, number, mass; गभस्तिजालैः प्रदिशो दिशश्च Mb.3.164.1; चिन्तासन्ततितन्तुजालनिबिडस्यूतेव Māl.5.1; Ku.7.89; Śi. 4.56; Amaru.58.

Magic.

Illusion, deception.

An unblown flower.

The membrane which unites the toes of many water-birds.

A disease of the eyes.

Pride, arrogance. -लः The Kadamba tree.-Comp. -अक्षः a loop-hole, window; हेमजालाक्षनिर्गच्छद्धूमेन Bhāg.8.15.19. -कर्मन् n. the occupation of catching fish, fishing.

कारकः a net-maker.

a spider.-गर्दमः a kind of pimple or boil. -गोणिका a kind of churning vessel. -ग्रथित a. connected by a web; Ś. 7.16. -पाद्, -पादः a goose; जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ Mb.12.343.36. -प्राया mail, armour.

"https://sa.wiktionary.org/w/index.php?title=जालम्&oldid=384879" इत्यस्माद् प्रतिप्राप्तम्