जीरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरकः, पुं, (जीर + संज्ञायां कन् ।) वणिग्- द्रव्यविशेषः । जीरा इति भाषा । तत्पर्य्यायः । जरणः २ अजाजी ३ कणा ४ । इत्यमरः । २ । ९ । ३६ ॥ जीर्णः ५ जीरः ६ दीप्यः ७ जीरणः ८ अजाजिका ९ वह्निशिखः १० मागधः ११ दीपकः १२ । इति जटाधरः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । दीपन- त्वम् । वातगुल्माध्मानातीसारग्रहणीक्रिमि- नाशित्वञ्च । इति राजनिर्घण्टः ॥ रुचिस्वर- कारित्वम् । गन्धयुक्तत्वम् । कफवातनाशित्वम् । पाके कटुत्वम् । तीक्ष्णत्वम् । लघुत्वम् । पित्त- वर्द्धनत्वञ्च । इति राजवल्लभः ॥ अपि च । शुक्लजीरा कृष्णजीरा कलौञ्जी एषां नामानि गुणाश्च । “जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः । कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ॥ कलाजाजी तु सुषवी कालिका चोपकालिका । पृथ्वीका कारवी पृथ्वी पृथुस्तूष्णोपकुञ्चिका ॥ उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि । जीरकत्रितयं रूक्षं कटुकं दीपनं लघु ॥ संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् । ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ॥ चक्षुष्यं पवनाध्मानगुल्मच्छर्द्द्यतिसारहृत् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरक पुं।

जीरकः

समानार्थक:जीरक,जरण,अजाजी,कणा

2।9।36।2।1

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्. जीरको जरणोऽजाजि कणा कृष्णे तु जीरके॥

 : कृष्णवर्णजीरकः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरक¦ m. (-कः) Cumin seed. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरकः [jīrakḥ] जीरणः [jīraṇḥ], जीरणः Cumin-seed; अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा Śiva. B.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरक m. n. = रणSus3r. i ; iv , 5 , 35

जीरक m. vi VarBr2S. li , 15

"https://sa.wiktionary.org/w/index.php?title=जीरक&oldid=386316" इत्यस्माद् प्रतिप्राप्तम्