जीर्ण्णास्थिमृत्तिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जीर्ण्णास्थिमृत्तिका¦ स्त्री। कृत्रिममृत्तिकाभेदे। (
“अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये!। शिलाजतुस्थले कुर्य्याद् दीर्घं गर्त्तं मनोहरम्। निः-क्षिपेत् तत्र नानास्थिसञ्चयं द्विचतुष्पदाम्। सर्जिक्षारंमहाक्षारं मृत्क्षारं लवणानि च। गन्धकोष्णजलंक्षेप्यं नानामूत्राणितत्र च। एवं कृत्वा मासषट्कं दद्यात्पाषाणमृत्तिकाम्। कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नी-ष्टकां शुभाम्। त्रिवर्षाज्जायते सर्वमेकीभूतं दृषत्-समम्। ततो निष्कास्य तच्चूर्णं कृत्वा पात्राणि निर्म-मेत्। प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणम्। महा-विषस्यंसंयोगात् तस्य भङ्गः प्रजायते। दूषीविषादि-संयोगात् पात्रे स्फोटा भवन्ति हि। तत्र क्षिप्तं क्षुद्र-विषं पात्रं कृष्णं प्रजायते। एवं ज्ञात्वा तत्र दद्यान्न[Page3124-b+ 38] कदाचिद्विपादिकमिति रावणः” शब्दार्यचिन्तामणिः।
