सामग्री पर जाएँ

जीवकाद्यतैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जीवकाद्यतैल¦ न॰ चक्रदत्तोक्ते तैलभेदे। तच्च तैलं द्विविधंलघुवृहद्भेदात् यदाह तत्रैव
“जीवकर्षभकौ द्राक्षा-सिता यष्टी बलोत्पलैः। तैलं नस्यं पयः पक्वं वातपित्त-शिरोगदे”। लघु।
“जीवकर्षभकौ द्राक्षा मधूकं मधुकंवला। नीलोत्पलं चन्दनञ्चविदारी शर्करा तथा। तैल-प्रस्थं पचेदेभिः शनैः पयसि षड्गुणैः। जाङ्गलस्य तुमांसस्य तुलार्द्धस्य रसेन तु। सिद्धमेतद्भवेन्नस्यं तैलम-र्द्धावशेषकम्। बाधिर्य्यं कर्णशूलञ्च तिमिरं गलशुण्ठि-काम्। वातिकं पैतिकञ्चैव शीर्षरोगं नियच्छति। दन्तचालं शिरः शूलमर्द्दितञ्चापकर्षति” वृहत्। चक्रद॰।

"https://sa.wiktionary.org/w/index.php?title=जीवकाद्यतैल&oldid=386538" इत्यस्माद् प्रतिप्राप्तम्