ज्ञानयोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानयोगः, पुं, (युज्यते ब्रह्मणानेनेति । युज + करणे घञ् । ज्ञानमेव योगः ।) ब्रह्मज्ञान- प्राप्त्युपायः । यथा, -- “सर्व्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः । इति मत्वा महाप्राज्ञः प्रतिकूलं न कारयेत् ॥ शब्दादयो ये विषया विषयी चाथ पूरुषः । जानीयात्तदशेषं वै स्वरूपं परमात्मनः ॥ परमात्मा च भगवान् विष्वक्सेनो जनार्द्दनः । तद्भक्तिमान् भगवतो नाल्पपुण्यैर्हि जायते ॥ भगवच्छासनालम्बी भगवच्छासनप्रियः । भगवद्भक्तिमास्थाय वत्स ! भागवतो भव ॥ भगवान् भूतभव्येशो भूतादिप्रभवोऽव्ययः । भावेन तं भजस्वेशं भवभङ्गकरं हरिम् ॥ भजस्व भावेन विभु भगवन्तं भवेश्वरम् । ततो भागवतो भूत्वा भवबन्धात् प्रमोक्ष्यसि ॥ तत्र चित्तं समाधातुं न शक्नोति भवान् यदि । तदभ्यासपरस्तस्मिन् कुरु योगं दिवानिशम् ॥ तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! । क्रियायोगे दिवारात्रौ तत्परः सततं भव ॥” इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानु- शासनो नामाध्यायः । विस्तारस्तु श्रीभगवद्- गीतायां ७ अध्याये द्रष्टव्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानयोग¦ पु॰ युज्यते ब्रह्मणाऽनेन युज--करणे घञ् ज्ञान-मव योगः। ब्रह्मप्राप्तिसाधने ज्ञानार्थनिष्ठाभेदे।
“लोके-ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानयोग/ ज्ञान--योग m. the योगas based on the acquisition of true knowledge (opposed to कर्म-य्or the योगas based on performance of ceremonial rites) Bhag. iii , 3 VP. vi , 4 , 42 Na1rP MatsyaP.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानयोग&oldid=389050" इत्यस्माद् प्रतिप्राप्तम्