ज्येष्ठस्थान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्येष्ठस्थान¦ न॰। काशोस्थे तीर्थभेदे तत्स्थानमाहात्म्यादिकथा काशीख॰
६३ अ॰।
“यमनेहसमारभ्य मन्दराद्रौ विनिर्यये। अद्रीन्द्र-सुतया सार्द्धं रुद्रेणोक्षेन्द्रगामिना। तं वासरं पुर-स्कृत्य जग्राह नियमं दृढम्। जैगीषव्या महामेधाःकुम्भयोने! महाकृती। विषमेक्षणपादाब्जं समीक्षिष्येयदा पुनः। तदाम्बुविप्रुषमपि भक्षयिष्यामि चेत्थहो। कुतश्चिद्धारणायोगादथ वा शम्भ्वनुग्रहात्। अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने!। तं शम्भुरेव जानातिनान्यो जानाति कश्चन। अतएव ततः प्राप्तः प्रथमंप्रमथाधिपः। ज्यैष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः। तत्पर्वणि महायात्रा कर्त्तव्या तत्र मानवैः। ज्येष्ठ-स्थानं ततः काश्यां तदाभूदतिपुण्यदम्। तत्र लिङ्गंसमभवत् स्वयं ज्येष्ठेश्वराभिधम्। तल्लिङ्गदर्शनात्पुंसां पापं जन्मशतार्ज्जितम्। तमोऽर्कोदयमाप्येव तत्-क्षणादेव नश्यति। ज्येष्ठवाप्यां नरः स्नात्वा तर्प-यित्वा पितामहान्। ज्येष्ठेश्वरं समालोक्य न भूयोजायते भुवि। आविरासीत् स्वयं तत्र ज्येष्ठेश्वरसमीपतः। सर्वसिद्धिप्रदा गौरी ज्येष्ठा नाम समन्ततः। ज्यैष्ठेमासि सिताष्टम्यां तत्र कार्य्यो महोत्सवः। रात्रौजागरणं कार्य्यं सर्वसम्प्त्समृद्धये। ज्येष्ठां गौरींनमस्कृत्य ज्येष्ठवापीपरिप्लुता। सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि। निवासं कृतवान् शम्भुस्तस्मिन्स्थाने यतः स्वयम्। निवासेश इति ख्यातं लिङ्गंतत्र परं तपः। निवासेश्वरलिङ्गस्य सेवनात् सर्व-सम्पदः। निवसन्ति गृहे नित्यं नित्यं प्रैति पदं पुनः। कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः। ज्येष्ठांतृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा। ज्येष्ठतीर्थेश्वरेकाश्यां दत्त्वा दानानि शक्तितः। ज्येष्ठान् स्वर्गान-वाप्नोति नरोमोक्षञ्च गच्छति। ज्येष्ठेश्वरोऽच्च्यः प्रथमंकाश्यां श्रेयोऽर्थिभिर्नरैः। ज्येष्ठा गौरी ततोऽभ्यर्च्च्यासर्वज्येष्ठमभीप्सुभिः”। तत्रत्यं ज्योतिःस्वरूपलिङ्गन्तु ज्येष्ठेश्वराभिधं महादेवस्यनितम्बभूतम् तथोक्तं काशीख॰
३२ अ॰।
“सर्वेषामपि लिङ्गानां मौलित्वं कृत्तिवाससः। अओङ्का-[Page3161-b+ 38] कारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः। गोकर्ण-भारभूतेशौ तत्कर्णौ परिकीर्त्तितौ। विश्वेश्वरावि-सुक्तौ च द्वावेतौ दक्षिणौ करौ। कर्णेशमणिकर्णीशौद्वौ करौ दक्षिणेतरौ। कालेश्वरकपद्दीर्शौ चरणा-वतिनिर्म्लौ। ज्येष्ठेश्वरो नितम्बश्च नाभिर्वै मध्यमेश्वरः। कपर्दोऽस्य महादेवः शिरोभूषा श्रुतीश्वरः। चन्द्रोशोहृदयन्तस्य आत्मा वीरेश्वरः परः। लिङ्गं तस्य तुकेदारः शुक्रं शुक्रेश्वरं विदुः। अन्यानि यानि लि-ङ्गानि परःकोटिमितानि च। ज्ञेयानि नखलोमानिवपुषो भूषणान्यपि। यावेती दक्षिणौ हस्तौ नित्यंनिर्वाणदौ हि तौ। जन्तूनाममयं दत्त्वा पततांमोहसागरे”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्येष्ठस्थान/ ज्येष्ठ--स्थान n. N. of a place of pilgrimage MBh. iii , 8204.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Jyeṣṭhasthāna : nt.: Name of a well.
Sacred to Mahādeva; after going round the Koṭitīrtha (pradakṣiṇam upāvṛtya), one should go to the Jyesṭhasthāna, and from there proceed to Śṛṅgaverapura; by visiting Mahādeva (abhigamya mahādevam) at this tīrtha one shines like the moon; there is a famous well at this tīrtha where the four oceans live (tatra kūpo mahārāja viśruto…/samudrās tatra catvāro nivasanti); by bathing (upaspṛśya) in this well and by making a pradakṣiṇā round it a person who has controlled himself (niyatātmā) becomes pure and attains the highest condition (pūto gaccheta paramāṁ gatim) 3. 83. 59-61.
_______________________________
*1st word in left half of page p357_mci (+offset) in original book.
Mahabharata Cultural Index