ज्योतिष्टोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्टोमः, पुं, (ज्योतींषि त्रिवृदादयः स्तोमा यस्य । “ज्योतिरायुषः स्तोमः ।” ८ । ३ । ८३ । इति षत्वम् ।) षोडशऋत्विक्साध्ययज्ञविशेषः । तत्र द्वादशशतगोदक्षिणा । इति मलमासतत्त्वम् ॥ (यथा, महाभारते । ३ । २२१ । ३० । “बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्टोम¦ पु॰ ज्योतीषि त्रिवृदादयः स्तोमायस्य षत्वम्।

१ स्वनामख्याते अग्निष्टोमस्वं स्थारूपे यज्ञभेदे तद्विधानादिताण्ड्य॰ ब्रा॰

४ ।

१ ।

६ ।
“यज्ज्योतिष्टोमो भवति यज्ञमुखन्तटाध्नुवन्ति यदुक्थोयज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्तै” मू॰
“अथ षोडशिकोऽयमतिरात्र इत्युक्तं, कॢप्तो ज्योति-ष्टोमोऽतिरात्रः स षोडशिक इति। अथ तद्व्यतिरिक्ता-भिस्तिसृभिः संस्थाभिरवयुज्य स्तूयते। षद्यपि सर्वेषा-मपि ज्योतिष्ठोमत्वमस्ति तथापि उक्थातिरात्रसंस्थयोःपृथग्वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्दे-नोच्यते। ज्योतीषि त्रिवृदादयः स्तोमा यस्य सज्योतिष्टोमः। तथा च तैत्तिरीयकं त्रिवृत्पञ्चदश सप्तदशएकविंश एतानि ज्योतींषि यत एतस्य स्तोमा इति। यज्जोतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्मको भवति ज्यो-तिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या,
“एष वाच प्रथमोयज्ञानामिति” श्रुतेः। तत्तेन यज्ञमुखं यज्ञानां मुखभूतम-ग्निष्टोमं प्राप्य आध्नुर्वन्ति सत्रिणः समृद्धा भवन्ति तथातस्मिन्नतिरात्रे उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतरन्त-र्भवतीति यत् तत् यज्ञक्रतोः संपूर्णस्य यज्ञस्य अनन्तर-याय अपरित्यागाय भवति उक्थसंस्थायां हि क्रतुःसंपूर्णो भवति यथा पूर्वयोः सवनयोः पञ्चदश पञ्चदशस्तात्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात्। अग्नि-ष्टोमस्त्वसंपूर्णः क्रतुः उक्तहेतोरभावात्” भा॰। तस्य च अग्निष्टोमसंस्थत्वेन ज्योतिष्टोमनामताहेतु-रुक्तो यथा
“यदेतानि सर्वाणि सह दुरुपापानि कै-तेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमेनैवाग्निष्टो-मेन यजेत। तम्य वा एतस्य ज्योतिष्टोमस्या-ग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तदुव्रतस्य शिरः, पञ्चदशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ, पञ्चदशं होतु-राज्यं सप्तदशं पृष्टमेकविंशं यज्ञायज्ञियं तत् पुच्छम्” शत॰ ब्रा॰

१० ।

१ ।

२ ।

७ ।
“अधुनां प्रथमसंस्थारूपज्योति-ष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचय-नादित्रयस्योपादानाद् ब्रह्मवादिप्रश्नोत्तराभ्यां दर्शयति। [Page3164-a+ 38] सह युगपत् दुरुपापानि आप्तुमशक्यानि सर्वेषां महाव्र-तयज्ञानुष्ठाने प्रयोगबाहुल्येनऋत्विक्सम्पादनादेः दुष्कर-त्वेन चानधिकारात् तत्राम्बिष्टोम इति पदेनाग्निस्तव-नोक्तेरग्निचयनमुक्तमिति मन्तव्यम्। पक्ष्याकारस्य महा-व्रतसाम्नो हि शिरःपक्षमध्यपुच्छात्मकाः पञ्चावयवाःशिरो नायत्रं, रथन्तरं दक्षिणः पक्षः वृहदुत्तरः पक्षःभद्रमस्य पुच्छं राजनसाम ह्यात्मेति तत्सर्वमग्निष्टोमेसम्पादयति तस्य वा इति ऋकत्रयात्मकमेक सूक्तं तादृ-शानि त्रीणि सूक्तानि त्रिवृतोऽवयवायस्य स्तोमस्य तदिदंत्रिवृदु बहिष्पवमानम् प्रातःसवनिकं तृचं सूक्तत्रयात्मकंवहिष्पवमानं महाव्रतस्य शिरो भवति बहिष्पवमानमपि गायत्रीच्छन्दस्कैस्तृचैर्गातव्यम् माध्यन्दिनः पञ्चदशस्तोत्रियात्मकः पवमानः, तृतीयंसवने सप्तदशस्तोत्रिया-त्मकः आर्भवः षवमानः पक्षस्थानीयौ होत्रानुशंसनीयंप्रथममाज्यस्तोत्र” सप्तदशस्तोत्रियात्मकं पृष्ठनामकंहोतुः प्रथमं स्तोत्रम् तदुभयं मध्यात्मरूपम्। एकविं-शत्यावृत्तिरूपं
“यज्ञायज्ञा वो अग्नयः” इत्यत्रोत्पन्नं सामपुच्छस्थनीयम्” भा॰

२ सोमयागे च
“ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तदुगुणदर्शनात्” कात्या॰ श्रौ॰

१२ ।

१ ।


“ज्योतिष्टोमशब्देन उपांश्वादिहारियोस्रनपर्य्यन्तो ग्रहयज्ञाभ्यासोऽभिधीयते ज्योतींषि यम्यस्तोमाः स ज्योतिष्टोमः स्तोमैर्ह्यसौ द्योत्यत इति ते चसोमयागस्य स्तोमाः तस्मात् ज्योतिष्ठोमशब्देन सोम-यागोऽभिधीयते” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्टोम¦ n. (-मं) A particular sacrifice at which sixteen officiating priests are required. It is a sacrifice considered as the typical form of a whole class of sacrificial ceremonies. E. ज्योतिस् light, and स्तोम a sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्टोम/ ज्योति--ष्टोम m. (fr. तिस्-स्तोमPa1n2. 8-3 , 83 )N. of a सोमceremony (typical form of a whole class of ceremonies consisting originally of 3 , and later of 4 , 5 , or 7 subdivisions , viz. अग्नि-ष्टोम(See. ) , उक्थ्य, and अति-रात्र, or in addition to these षोडशिन्, अत्य्-अग्नि-ष्टोम, वाज-पेय, and अप्तोर्-याम) TS. vii S3Br. x , xiii AitBr. iiietc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्टोम पु.
(ज्योतिषः स्तोमः) ‘प्रकाश की स्तुति’; एक एकाह (सोमयाग) का नाम, अगिन्ष्टोम इसकी प्रकृति है (ज्योतिष्टोम प्रायः अगिन्ष्टोम का पर्यायवाची है), आप.श्रौ.सू. 1०.2.1-2; ‘ज्योतिष्टोम’ के स्तोम हैं ः त्रिवृत्, पञ्चदश, सप्तदश एवं एकविंश, जो चार ज्योतिः-प्रकाश-शब्द वाच्य हैं (अतः इसी आधार पर ‘ज्योतिष्टोम’ नाम पड़ा)।

"https://sa.wiktionary.org/w/index.php?title=ज्योतिष्टोम&oldid=478460" इत्यस्माद् प्रतिप्राप्तम्