ज्वरकेशरिन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वरकेशरिन्¦ पु॰ ज्वरस्य तद्रूपगजस्य केशरीव हन्तृत्वात्।
“शुद्धसूतं विषं व्योषं गन्धं त्रिफलमेव च। जयपाल-समं कृत्वा भृङ्गतोयेन मर्द्दयेत्। गुञ्जामात्रा वटी कार्य्याबालानां सर्षपाकृतिः। सितया च समं पीता पित्त-ज्वरविनाशिनी। मरिचेन प्रयुक्ता सा सन्निपातज्वरा-पहा। पिप्पलीजीरकाभ्याञ्च दाहज्वरविनाशिनी। ज्वरकेशरिनामायं रसो ज्वरविनाशनः” भैषज्यर॰उक्ते औषधभेदे।
