ज्वरनागमयूरचूर्ण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वरनागमयूरचूर्ण¦ न॰ ज्वर एव नागः सर्पस्तस्य मयूरइव हिम्सकत्वात् कर्म॰। (
“लौहाभ्रटङ्गनं ताम्रं तालकं वङ्गमेव च। शुद्ध-सूतं गन्धकञ्च शिग्रुवीजं फलत्रिकम्। चन्दनातिविषापाठा वचा च रजनीद्वयम्। उशीरं चित्रकं देवकाष्ठञ्चसपटोलकम्। जीवकर्षभकाजाज्यस्तालीशं वंशलोचना। कण्टकारीफलं मूलं शटीपत्रं कटुत्रयम्। गुडूचीसत्वधन्याकं कटुका क्षेत्रपर्पटी। मुस्तकं बालकं विल्वंयष्ठीमधुसमं समम्। भागाच्चतुर्गुणं देयं कृष्णजीरस्यचूर्णकम्। तत्समं तालपुष्पञ्च चूर्णं दण्डोत्पलाभ-वम्। कैरातं तत्समं देयं तत्समं चपलाभवम्। एतच्चूर्णं समाख्यातं ज्वरनागमयूरकम्। प्रतिकर्षमितं-खाद्यं युक्त्या वा रुचिवर्द्धनम्। सन्ततादिज्वरं हन्ति-साध्यासाध्यं न संशयः। क्षयोद्मवञ्च धातुस्थं कामशी-कोद्भवं ज्वरम्। भूतावेशज्वरञ्चैवमभिचारसमुद्भवम्। दाहशीतज्वरं घोरं चातुर्थ्यादिविपर्य्ययम्। जीर्णञ्चविषमं सर्वं प्लोहानमुदरं तथा। कामलां पाण्डुरोगञ्चशोथं हन्ति न संशयः। भ्रमं तृष्णाञ्च कासञ्च शूला-नाहौ क्षयं तथा। यकृतं गुल्मशूलञ्च आमवातं निहन्तिच। त्रिकपृष्ठकटीजानुपार्श्वानां शूलनाशनम्। अनुपानंशीतजलं न देयमुष्णवारिणा” भैषज्यर॰ उक्ते औषधभेदे
