सामग्री पर जाएँ

ज्वरबलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ज्वरबलि¦ पु॰ ज्वरशान्त्यै देयो बलिः शाक॰। भैष-ज्यर॰ उक्ते ज्वरनाशके वलिमेदे तत्प्रकारो यथा[Page3179-b+ 38](
“ज्वरामयगृहोतस्य मुष्टिभिर्नवभिः कृतम्। तण्डुलैरोदनं तेन कुर्य्यात् पुत्तलकं शुभम्। तं हरिद्रावलि-प्ताङ्गं चतुःपितध्वजान्वितम्। हरिद्रारसपूर्णाभिःपुटिकाभिश्चतसृभिः। मण्डितं गन्धपुष्पाद्यैरवकीर्य्यविसर्जयेत्। एवं दिनत्रयं कुर्य्यात् ज्वररोगोपशान्तये” (ओदनेन पुत्तलं निर्म्माय वीरणचाचिकायां संस्थाप्यहरिद्राभिरवलिप्य चतुःपितपताकाभिरलङ्कृत्य नन्ध-पुष्पाद्यैरवकीर्य्य हरिद्रारसपूर्णाश्चतस्रः पुटिकाश्चतुः-कोणे संस्थाप्याः)। पुटिका अश्वत्थपत्ररचितठोङ्गा। अन्योऽपि प्रकारो विधानपारिजातादौ दृश्यः।

"https://sa.wiktionary.org/w/index.php?title=ज्वरबलि&oldid=390412" इत्यस्माद् प्रतिप्राप्तम्