सामग्री पर जाएँ

ज्वरभैरवचूर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ज्वरभैरवचूर्ण¦ न॰ ज्वरस्य भैरव इवनाशकत्वात् कर्म॰। (
“नागरं त्रायमाणा च पिचुमर्द्दो दुरालभा। पथ्यामुस्तं वचा दारु व्याघ्री शृङ्गीशतावरी। पर्पटंपिप्प-लीमूलं विशाला पुष्करं शटी। मूर्वा कृष्णा हरिद्रेद्वेलोघ्रचन्दनमुष्ककम्। कुटजस्य फलं वल्कं यष्टीमधुक-चित्रकम्। शोभाञ्जनं बला चातिविषा च कटुरोहिणी। मूषली पद्मकाष्ठञ्च यमानी शालपर्णिका। मरिचं चा-मृता विल्वं बालं पङ्कस्य पर्पटी। तेजपत्रं त्वचं धात्रीपृश्निएर्णी पटोलकम्। गन्धकं पारदं लौहमभ्रकञ्चमनःशिला। एतेषां समभागेन चूर्णमेव विनिर्दिशेत्।{??}दर्द्धं प्रक्षिपेत्तत्र चूर्णं भुनिम्बसम्भवम्। मात्रामस्य प्रयु-ञ्जीत दृष्ट्वा दोषवलाबलम्। चूर्णं भैरवसंज्ञन्तु ज्वरान्हन्ति न संशयः। पृथग्दोषांश्च विविधान् समस्तान्विषमज्वरान्। द्वन्द्वजान् सन्निपातोत्थान् मानसानपिनाशयेत्। प्राकृतं वैकृतञ्चैव सौम्यं तीक्ष्णमथापि वा। अन्तर्गतं बहिःस्थञ्च निरामं साममेव च। ज्वरमष्टविधंहन्ति साध्यासाध्यं न संशयः। नानादेशोद्भवञ्चैव वारि-दोषभवं तथा। विरुद्धभेषजभवं ज्वरमाशु व्यपोहति। अग्निमान्द्र्यं यकृत् प्लीहा पाण्डुरोगमरोचकम्। उद-रान्यन्त्रवृद्धिञ्च रक्तपित्तं त्वगामयम्। श्वयथुञ्च शिरः-गूलं वातामयरुजां जयेत्। ज्वरभैरवसंज्ञन्तु भैरवेण कृतंशुभम्” भैषज्यर॰ उक्ते औषधभेदे।

"https://sa.wiktionary.org/w/index.php?title=ज्वरभैरवचूर्ण&oldid=390420" इत्यस्माद् प्रतिप्राप्तम्