ज्वरमातङ्गकेशरिरस
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वरमातङ्गकेशरिरस¦ पु॰ ज्वर एव मातङ्गो गजस्तत्रकेश-रीव कर्म्म॰। (
“पारदं गन्धकं चैव हरितालं समाक्षिकम्। कटु-त्रयं तथा पथ्या क्षारौ द्वौ सैन्धवं तथा। निम्बस्यविषमुष्टेश्च वीजं चित्रकगेव च। एषां माषमितं भागंग्राह्यं प्रति सुसंस्कृतम्। द्विमाषं कानकफलं विषञ्चापिद्विमाषिकम्। निर्गुण्डीस्वरसेनैव शोषयेत्तत् प्रयत्नतः। सार्द्ध रत्तिप्रमाणेन वटी कार्य्या सुशोभना। सर्वज्वरहरीचैषा भेदिनी दोषनाशिनी। आमाजीर्णप्रशमनी कामलाषाण्डुरोगहा। वह्निदीप्तिकरो चैषा जठरामयना-शिनी। उष्णोदकानुपानेन दातव्या हितकारिणी। भाषितो लोकनाथेन ज्वरमातङ्गकेशरी” भैषज्यर॰ उक्तेऔषधभेदे।
