ज्वरमुरारिरस
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वरमुरारिरस¦ पु॰ ज्वरो मुर इवासुरभेदस्तस्यारिः कर्म्म॰। (
“शुद्धसूतं शुद्धगन्धं विषञ्च दरदं पृथक्। कर्षप्रमाणंकर्षार्द्धं लवङ्गं मरिचं पलम्। शुद्धं कनकवीजञ्च पल-द्वयमितं तथा। त्रिवृत कर्षमेकञ्च भावयेद्दन्तिकाद्रवैः। सप्तधा च ततः कार्य्या गुडीगुञ्जामृता शुभा। ज्वर-मुरारिनामायं रसोज्वरकुलान्तकः। अत्यन्ताजिर्ण-पूर्णे च ज्वरे विष्टम्भसंयुते। सर्वाग्रहणीगुल्मे चा-मवातेऽम्लपित्तके। कासश्वासे यक्ष्मरोगेऽप्युदरे सर्वस-म्भवे। गृध्रस्यां सन्धिमज्जस्थे वाते शोथे च दुस्तरे। यकृति प्लीहरोगे च वातरोगे चिरोत्थिते। अष्टादशकुष्ठरोगे सिद्धो गुहविनिर्म्मितः” भैषज्यर॰ उक्तेऔषधभेदे।
