सामग्री पर जाएँ

ज्वरसिंहरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ज्वरसिंहरस¦ पु॰ ज्वरस्य तद्रूपगजस्य सिंह इव हन्तृत्वात्कर्म॰। भैषज्यरत्नावल्युक्ते औषधभेदे। तल्लक्षणं यथा[Page3180-b+ 38]
“पारदं गन्धकं तालं भल्लातकमथैव च। वज्रीर्क्षारसमायुक्तमेकत्र च विमएदयेत्। मृत्तिकाभाजने स्थाप्यमुद्रितव्यं विचक्षणैः। अग्निं प्रज्वालयेत्तत्र प्रहरद्वयसंख्या। शीतलं खलयेत्तत्र भावना च प्रदीयते। भृङ्गराजरसैरत्र गण्डदूर्वाभवै रसैः। चित्रकस्य रसे-नापि भावना दीयते पुनः। पश्चात्तच्चूर्णयेद् यत्नात्कूपिकायाञ्च धारयेत्। ज्वर उत्पद्यते यस्य चतुर्थे चापरेपुनः। माषैकञ्च रसं देयं तत्क्षणान्नाशयेज्ज्वरम्। ज्वरशान्तेः परं पथ्यं देयं मुद्गौदनः पयः। ज्वरसिंह-रसो नाम सर्वज्वरविनाशनः”।

"https://sa.wiktionary.org/w/index.php?title=ज्वरसिंहरस&oldid=390440" इत्यस्माद् प्रतिप्राप्तम्