सामग्री पर जाएँ

ज्वराङ्कुशरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ज्वराङ्कुशरस¦ पु॰ ज्वरस्य गजरूपस्य अङ्कुश इव प्रति-रोधकत्वात् कर्म्म॰। भैषज्यर॰ उक्ते औषधभेदे स चनानाविधो यथा(
“शुद्धं सूतं विषं गन्धं धूर्त्तवीजं त्रिभिः समम्। चतुर्णां द्विगुणं ब्योषं चूर्णं गुञ्जाद्वयं हितम्। जम्बीरस्यच मज्जाभिरार्द्रकस्य रसैर्युतम्। ज्वराङ्कुशो रसीनाम्ना ज्वरान् सर्वान् निहन्ति वै। (व्योषं मिलित्वाद्विगुणम्। ) (अयं भेदि ज्वराङ्कु शो नाम्ना ख्यातः। )अन्योऽपि तत्रैव उक्तो यथा
“रसस्य द्विगुणं गन्धं गन्ध-तुल्यञ्च टङ्कनम्। रसतुल्यं विषं योज्यं मरिचं पञ्चधाविषात्। कट्फलं दन्तिवीजञ्च प्रत्येकं मरिचोन्मितम्। ज्वराङ्कुशो रसोह्येष चूर्णयेदतिचिक्कणम्। माषैकेननिहन्त्याशु ज्वरं जीर्णं त्रिदोषजम्”। अत्रानुरूपमात्रांशर्करादीनां निपीय गिलित्वा किञ्चिज्जलं पिवेत्। अन्यविधोऽपि तत्रैवोक्तो यथा
“ताम्रकाद् द्विगुणं तालं मर्दयेत् सुषवीद्रवैः। प्रपुटेद्भूधरे शीते वज्रीक्षीरेण मर्दयेत्। प्रपुटेत् भूधरे पश्चात्प्रञ्चगुञ्जामितं भवेत्। आर्द्रकस्य रसेनैव सर्वज्वरनिकृ-न्तनः। ऐकाहिकम् द्व्याहिकञ्च त्र्याहिकं चातुरा-हिकम्। विषमञ्चापि शीताद्यं ज्वरं हन्ति ज्वराङ्कुशः” अन्यविधोऽपि तत्रैव
“शुद्धसूतं तथा गन्धं कर्षमानं नयेद्बुघः। महौषधं टङ्कनञ्च हरितालं तथा विषम्। रसार्द्धं मर्दयेत् खल्ले भृङ्गराजरसेन तु। त्रिदिनं भा-वनां दत्त्वा चतुर्थे वटिकां ततः। कुर्य्याच्चणकमात्राञ्चपिप्पलीमधुसम्युताम्। एष ज्वराङ्कुशो नाम विषम-[Page3181-a+ 38] ज्वरनाशनः” महौषधादीनाम् चतुर्णां प्रत्येकं रसा-र्द्धम्। अन्यविधोऽपि
“मरिचं टङ्कनं शङ्घचूर्णं पारदग-न्धकम्। शोधितं ब्रह्मपुत्रञ्च भागमेकं विनिःक्षिपेत्। गुञ्जामात्रा प्रदातव्या नागवल्लीदलैः सह। ज्वराङ्कुशोरसोह्येष ज्वरमष्टविधं जयेत्” अन्यविधोऽपि
“त्रि-भागतालेन हतञ्च ताम्रं रसञ्च गन्धञ्च समोनमायुः। विषं समं तदुद्विगुणञ्च ताम्रं त्रिसप्तवारञ्च दिवाकरातपे। संमर्द्य निम्बुस्वरसेन चूर्णं गुञ्जाप्रमाणं सितया समे-तम्। ज्वराङ्कुशोऽयं विबिधप्रभावो ज्वरं निहन्त्यष्टविधंसमग्रम्” मीनमायुः मत्स्यपित्तम्।

"https://sa.wiktionary.org/w/index.php?title=ज्वराङ्कुशरस&oldid=390464" इत्यस्माद् प्रतिप्राप्तम्