ज्वरातिसार
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वरातिसार¦ पु॰। ज्वरयुक्तोऽतिसारः। ज्वरयुक्ते अति-साररोगे तत्स्वरूपादि भैषज्यर॰ उक्तो यथा।
“पित्तज्वरेपित्तमवोऽतिसारस्तथातिसारे यदि वा ज्वरः स्यात्। दोषस्य दुष्यस्य समानभावाज्ज्वरातिसारः कथितो भिष-ग्भिः”।
“ज्वरातिसारयोरुक्तमन्योन्यं भोषजं पृथक्। नतन्मिलितथोः कुर्य्यादन्योन्यं वर्द्धयेद् यतः। प्रायोज्वरहरं भेदि, स्तम्भनन्त्वतिसारनुत्। अतोऽन्योन्यविरुद्ध-त्वाद् वर्द्धनं तत्परस्परम्। ज्वरातिसारिणामादौ कुर्य्यात्लङ्घनपाचने। प्रायस्तावामसम्बन्धं विना न भवतोयतः। ज्वरातिसारे पेयादिक्रमः स्याल्लङ्धिते हितः। ज्वरातिसारी पेयां वा पिवेत् साम्लां शृतां नरः”।
