झर्झरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः, पुं, (झर्झ इत्यव्यक्तशब्दं रातीति । रा + कः । यद्बा, झर्झति शब्दायते इति । झर्झ + बहुलवचनात् अरः ।) वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ चर्म्मपुटाच्छादितकाष्ठस्थानम् । इति तट्टीकासारसुन्दरी ॥ करड इति ख्यातः । “डिण्डिमो डेङ्गरीप्रोक्तो झर्झरः पटहः स्मृतः ॥” इति भरतधृतवैकुण्ठः ॥ तत्पर्य्यायः । झल्लकी २ झल्ली ३ झलरी ४ झर्झरी ५ । इति शब्दरत्नावली ॥ (यथा, हठयोगप्रदीपिकायाम् । ४ । ८५ । “आदौ जलधिजीमूतभेरीझर्झरसम्भवाः ॥” झर्भ्यते निन्द्यते इति । झर्झ भर्त्से + अरः ।) कलियुगम् । (झर्झरोझर्झरशब्द इवास्त्यस्येति । अच् ।) नदभेदः । इति मेदिनी । रे, १५८ । (हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७९ । “हिरण्याक्षसुताः पञ्च विद्बांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः [jharjharḥ], 1 A sort of drum.

The Kali age.

A cane-staff.

An iron instrument used in cooking.

A cymbal. -रा A whore, harlot. -री A sort of drum. -रम् A sound as of splashing or dropping.

"https://sa.wiktionary.org/w/index.php?title=झर्झरः&oldid=391080" इत्यस्माद् प्रतिप्राप्तम्