टङ्कणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कणः, पुं, (टकि बन्धे + ल्युः । पृषोदरात् णत्वे साधुः ।) क्षारविशेषः । सोहागा इति भाषा । (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “विरुक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः । अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥”) तत्पर्य्यायः । पाचनकः २ मालतीतीरजः ३ लोहश्लेषणः ४ रसशोधनः ५ । इति हेम- चन्द्रः । ४ । १० ॥ टङ्कणक्षारः ६ रङ्गक्षारः ७ रसाधिकः ८ लोहद्रावी ९ रसघ्नः १० सुभगः ११ रङ्गदः १२ वर्त्तुलम् १३ कनकम् १४ क्षारम् १५ मलिनम् १६ धातुवल्लभम् १७ । इति राजनिर्घण्टः ॥ मालतीतीरसम्भवः १८ द्रावी १९ द्रावकः २० लोहशुद्धिकारकः २१ । इति भावप्रकाशः ॥ स्वर्णपाचकः २२ । इति रत्नमाला ॥ अस्य गुणाः । कटुत्वम् । उष्ण- त्वम् । कफस्थावरादिविषकासश्वासनाशित्वञ्च । इति राजनिर्घण्टः ॥ अग्निवातपित्तकारित्वम् । रूक्षत्वम् । इति भावप्रकाशः ॥ (देश- विशेषः । यथा, बृहत्संहितायाम् । १४ । १२ । “कङ्कटटङ्कणवनवासि शिविककणिकारकोङ्कणा- भीराः ॥”)

"https://sa.wiktionary.org/w/index.php?title=टङ्कणः&oldid=136679" इत्यस्माद् प्रतिप्राप्तम्