टिट्टिभः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिट्टिभः, पुं, (टिट्टीत्यव्यक्तशब्दं भणतीति । भण + डः ।) पक्षिविशेषः । टीठि इति भाषा । तत्पर्य्यायः । टीठिभकः २ । इति शब्दरत्ना- वली ॥ टिट्टिभकः ३ । इत्यमरः । २ । ५ । ३५ ॥ टिट्टिभकः ४ । इति तट्टीका ॥ (यथा, मनुः । ५ । ११ । “अनिर्द्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्ज्जयेत् ॥”) त्रयोदशमन्वन्तरीयेन्द्रशत्रुदानवविशेषः । यथा, “इन्द्रो दिवस्पतिः शत्रुष्टिट्टिभो नाम दानवः । मायूरेण च रूपेण घातयिष्यति माधवः ॥” इति गारुडे ८७ अध्यायः ॥ (वरुणसभारक्षकदानवानामन्यतमः । असौ हि मर्त्त्यघर्म्मविवर्ज्जितः । यथा, महाभारते । २ । ९ । १५ । “टिट्टिभो विटभूतश्च संह्नादश्चेन्द्रतापनः ॥” इत्युपक्रम्याह । “सर्व्वे लब्धवराः शूराः सर्व्वे विगतमृत्यवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=टिट्टिभः&oldid=136707" इत्यस्माद् प्रतिप्राप्तम्