डिम्बाहवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बाहवः, पुं, (डिम्बः नृपतिहीनत्वात् विप्लव- मूल आहवः ।) नृपतिरहितयुद्धम् । इति जटाधरः ॥ (यथा, मनुः । ५ । ९५ । “डिम्बाहवहतानाञ्च विद्युता पार्थिवेन च ॥” “डिम्बाहवो नृपरहितयुद्धं तत्र हतानाम् ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

"https://sa.wiktionary.org/w/index.php?title=डिम्बाहवः&oldid=136790" इत्यस्माद् प्रतिप्राप्तम्