तक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्रम्, क्ली, (तनक्ति सङ्कोचयति दुग्धं पादाम्बु- दधिरूपेण परिणमयतीत्यर्थः । “स्कायितञ्चीति ।” उणां । २ । १३ । इति रक् न्यङ्क्वादित्वात् कुत्वं च ।) पादाम्बुसंयुतदधि । इत्यमरः । २ । ९ । ५३ ॥ (“गव्यन्त्रिदोषशमनं तक्रं श्रेष्ठन्तदुच्यते । दीपनं रुचिकृन्मेध्यमर्शोदरविकारजित् ॥” इति गव्यतक्रगुणाः ॥ “माहिषं कफकृत् किञ्चिद्घनं शोफकरं नृणाम् । प्लीहार्शोग्रहणीगुल्मपाण्ड्वामयविनाशनम् ॥” इति माहिषतक्रगुणाः ॥ “छागलं लघु संस्निग्धं त्रिदोषशमनं परम् । गुल्माशग्रिहणीशूलं पाण्ड्वामयविनाशनम् ॥” इति छागीतक्रगुणाः ॥ “तथाच त्रिविधं तक्रं कथ्यते शृणु पुत्त्रक ! । यथायोगेन तत् सम्यक् शस्यते येषु रोगिषु ॥ समुद्धतघृतं तक्रमर्द्धोद्धृतघृतञ्च तत् । अनुद्धृतघृतञ्चान्यदित्येतत्त्रिविधं मतम् ॥ सर्व्वं लघु च पथ्यञ्च त्रिदोषशमनं परम् । ततः परं वृष्यतमं क्रमेण समुदीरितम् । समुद्धृतघृतन्तक्रं लघु पथ्यतमं मतम् ॥ गरोदरार्शोग्रहणीपाण्डुरोगज्वरातुरे । वर्च्चोमूत्रग्रहे वापि प्लीहाव्यापदमेहिषु ॥ हितं संप्रीणनं बल्यं पित्तरक्तविबोधकृत् ॥ अर्द्धोद्धृतघृतं तस्माद्वृष्यं गुरु कफप्रदम् । मधुरं पित्तरक्तघ्नं श्रमघ्नं परमं मतम् ॥ अनुद्धृतघृतं सान्द्रं गुरु विद्यात् कफावहम् । बलप्रदन्तु क्षीणानामामशोफातिसारकृत् ॥” इति त्रिविधतक्रगुणाः ॥ * ॥ “तक्रं ग्राहि कषायाम्लं वीर्य्योष्णं दीपनं लघु । श्रमापहरणं स्निग्धं ग्रहण्यर्शोऽतिसारनुत् ॥ इति तक्रगुणाः प्रोक्ता न दद्याद् यत्र तच्छृणु । षाते शोफे च क्षीणानां नोष्णकाले शरत्सु च ॥ संमूर्च्छाभ्रमतृष्णासु तथाच रक्तपित्तके । न शस्तं तक्रपानञ्च करोति विविधान् गदान् ॥” एतेषां तक्रं निषिद्धम् ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्र नपुं।
पादांशजलघोलः
समानार्थक:तक्र
2।9।53।2।1
दण्डाहतं कालशेयमरिष्टमपि गोरसः। तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्.।
पदार्थ-विभागः : पक्वम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्र¦ न॰ तन्च--रक् न्यङ्क्वा॰ कुत्वम्। चतुर्थांशजलयोगेनदधिमन्थनजाते दधिविकारभेदे (घोल) अमरः। तद्भेदा-दिकं भावप्रका॰ उक्तं यथा(
“घोलन्तु मथितं तक्रमुदश्विच्छच्छिकापि च। ससरंनिर्जलं घोलं मथितन्त्वसरोदकम्। तक्रं पादजलं प्रोक्त-मुदश्विदर्द्ध्ववारिकम्। छच्छिका सारहीना स्यात् स्वच्छाप्रचुरवारिका। घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसाल-वत्”। मथितं (महुया) इति लोके। छच्छिका (छाच्छ)इति लोके।
“वातपित्तहरं ह्लादि मथितं कफपित्तनुत्। तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु। वीर्य्योणंदीपनं वृष्यं प्रीणनं वातनाशनम्। ग्रहण्यादिमतांपथ्यं भवेत्सङ्ग्राहि लाघवात्। किञ्च स्वादुविपा-कित्वान्नच पित्तप्रकोपणम्। कषायं दीपनं वृष्यंप्रीणनं वातनाशनम्। कषायोष्णविपाकित्वाद्रौक्ष्याच्चापिकफापहम्। न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाःप्रभवन्ति रोगाः। यथा सुराणाममृतं सुखाय तथानराणां भुवि तक्रमाहुः। उदश्चित्कफकृद्बल्यमामघ्नंपरमं मतम्। छच्छिका शीतला लघ्वी पित्तश्रमतृषा-हरी। बातनुत् कफकृत्त्सा तु दीपनी लवणान्विता। ( अथोद्धृतघृतस्तोकोद्धृतानुद्धृतघृतानां तक्राणां गुणाः
“समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः। स्तोकोद्धृत-घृतं तस्माद्गुरु वृष्यं कफापहम्। अनुद्धृतघृतं सान्द्रंगुरु पुष्टिकफप्रदम्”( य दोषविशेषे व्याधिविशेषे तक्रविशेषाः। वातेऽ{??} शस्यते तक्रं शुण्टीसैन्{??}वसंयुतम्। पित्ते[Page3201-b+ 38] स्वादुसितायुक्तं सव्योषमधिके कफे। हिङ्गुजीरयुतंघोलं सैन्धवेन च संयुतम्। भवेदतीव वातघ्नमर्शो-ऽतीसारहृत्परम्। रुचिदं पुष्टिदं बल्यं वस्तिशूलविना-शनम्। मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्”। अथामपक्कतक्रगुणाः
“तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च। पीनसश्वासकासादौ पक्वमेव प्रशस्यते”। अथ तक्रसेवननिमित्तानि।
“शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च। अरुचौस्रोतसां रोधे तक्रं स्यादमृतोपमम्। तत्तु हन्तिगरच्छर्दिप्रसेकविषमज्वरान्। पाण्डुमेदोग्रहण्यर्शो मूत्र-ग्रहभगन्दरान्। मेहं गुल्ममतीसारं शूलप्लीहोदरा-रुचीः। श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्”। ( तक्रस्याविषयाः
“नैव तक्रं क्षते दद्यात् नोष्णकाले नदुर्बले। न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे”। ( अथ गव्यादीनां विशिष्टाः गुणाः
“यान्युक्तानि दध-न्यष्टौ तद्गुणं तक्रमादिशेत्”। भावप्र॰। अधिकं कृतान्नशब्दे
२१
८५ पृ॰ दृश्यम्।
“मन्यनादि-पृथग्भूतस्नेहमर्धोदकं तु यत्। नातिसान्द्रद्रवं तक्रंस्वाद्वम्लं तुवरं रसे” सुश्रु॰।
“सूत्रकार्पासकिण्वानांगोमयस्य गुडस्य च। दध्नः क्षीरस्य तक्रस्य पानीयस्यतृणस्य च” मनुः।
“तक्रनिस्रावबहुलं दधिमण्डार्द्र-मृत्तिकम्” हरिवं॰
६१ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्र¦ n. (-क्रं) n. Buttermilk with a fourth part water. E. तक् to bear (sickness), Unadi affix रक्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्रम् [takram], Butter-milk; Ms.8.326; Y.3.37,321; तक्रं शक्रस्य दुर्लभम् Subhāṣ. -Comp. -अटः a churning-stick. -कूर्चिका Curds from milk boiled with whey.-पिण्डः The substance of butter-milk mixed with 1/4th of water remaining after making it pass through a piece of cloth; curds; Bhāva. P.5.13.3. -सारम् fresh butter.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तक्र n. ( g. न्यङ्क्व्-आदि)buttermilk mixed with (a third part of) water Mn. viii , 326 Ya1jn5. iii , 37 and 322 Hariv. etc.