तण्डुलीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयः, पुं, (तण्डुलाय हितः । तण्डुल + “विभाषा हविरपूपादिभ्यः ।” ५ । १ । ४ । इति छः ।) पत्रशाकविशेषः । क्षुदियानटिया इति चा~पानटिया इति च वङ्गभाषा । चवराइ इति अल्पमरुषा इति च हिन्दी भाषा । तत्- पर्य्यायः । अल्पमारिषः २ । इत्यमरः । २ । ४ । १३६ ॥ तण्डुलीकः ३ तण्डुलः ४ । इति शब्द- रत्नावली ॥ भण्डीरः ५ तण्डली ६ तण्डुलीयकः ७ ग्रन्थिलः ८ बहुवीर्य्यः ९ मेघनादः १० घन- स्वनः ११ सुशाकः १२ पथ्यशाकः १३ स्फूर्जथुः १४ स्वनिताह्वयः १५ वीरः १६ तण्डुलनामा १७ । अस्य गुणाः । शिशिरत्वम् । मधुरत्वम् । विष- पित्तदाहभ्रमनाशित्वम् । रुचिकारित्वम् । दीप- नत्वम् । पथ्यत्वञ्च । तद्दलगुणाः । हिमत्वम् । अर्शःपित्तरक्तविषकासविनाशित्वम् । ग्राहक- त्वम् । मधुरत्वम् । विपाके दाहशोषशमनत्वम् । रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ विड- ङ्गम् । ताप्यम् । इति मेदिनी । ये, ११९ ॥ अस्य पर्य्यायगुणाः । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः ॥ तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् । सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः ॥” तद्भेदः । जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम् । “पानीयतण्डुलीयन्तु कञ्चटं समुदाहृतम् । कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीय पुं।

अल्पमारिषः

समानार्थक:तण्डुलीय,अल्पमारिष

2।4।136।1।1

शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः। विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीय¦ पु॰ तण्डुलाय तद्भक्षणाय हितं छ। (क्षुद्रनटे)(चां पानटे)

१ शाकभेदे

२ विडङ्गे च। स्वार्थे क। तण्डुलीयक उक्तशाके अमरः।
“तण्डुलीयो मेघनादः केन्दरन्तण्डुलेरकः। भाण्डी-रस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः। तण्डुलीयोलघुः शीतो रूक्षः पित्तकफास्रजित्। सृष्टमूत्रमलोरुच्यो दीपनो विषहारकः”। तद्भेदः जलतण्डुलीयंशास्त्रे कञ्चटमिति प्रसिद्धम्। पानीयतण्डुलीयोयस्तत्कञ्चटमुदाहृतम्। कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु” भावप्र॰ स्वार्थे के कापि अत इत्त्वम्। तण्डुलीयिका विडङ्गे स्त्री राजनि॰। तण्डुलीवीजो-ऽप्युक्तशाके पु॰ भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीय¦ m. (-यः)
1. A kind of Amaranth. (A. polygonoides.)
2. Bidanga a vermifuge.
3. A mineral, iron pyrites. E. तण्डुल grain, (to which the seeds, &c. are compared. and छ affix; also तण्डुलीयक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीय m. ( g. अपूपा-दि) id. Sus3r.

तण्डुलीय m. = लुL.

तण्डुलीय m. iron pyrites L.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीय&oldid=394198" इत्यस्माद् प्रतिप्राप्तम्