तत्त्वज्ञानार्थदर्शनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञानार्थदर्शनम्¦ न॰। तत्त्वज्ञानस्याहंब्रह्मास्मीतिसाक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसा-धनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्य्या-त्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्चमोक्षः तस्य दर्शनम् आलोचनम्। तत्त्वज्ञानार्थे आलोचनेतत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात्इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम्।