तत्पदवाच्यार्थ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तत्पदवाच्यार्थ¦ पु॰
६ त॰। तत्त्वमस्यादि वाक्यस्थ तत्पदस्यवाच्यार्थे अज्ञानादिसमष्टिः एतदुपहितसर्वज्ञत्वादिवि-शिष्टचैतन्यम् एतदनुपहितचैतन्यञ्चैतत् त्रयं तप्तायः-पिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवतीतिव्युत्पादितेऽर्थे।
