सामग्री पर जाएँ

तत्पदार्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तत्पदार्थः¦ पु॰ तत्त्वमस्यादिवाक्यस्थस्य तत्पदस्यार्थः। जगत्[Page3212-a+ 38] कारणे परमात्मनि।
“यत् जगत्कारणं तत्त्वं तत्-पदार्थः स उच्यते”। एवं तत्पदार्थो निरूपितः इदानींत्वंपदार्थो निरूप्यते” वेदान्तसा॰। तत्पदत्वंपदवाच्य-योर्विरोधेनाभेदाभावेऽपि लक्ष्यार्थयोर्यथाऽभेदस्तथाविवेकचू॰ न्यरूपि यथा
“तत्त्वम्पदाभ्यामभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदीत्थम्। श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रति-पाद्यते मुहुः। ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निग-द्यतेऽन्योऽन्यविरुद्धधर्मिणोः। खद्योतभान्वोरिव राज-भृत्ययोः कूपाम्बुराश्योः परमाणुमेर्व्वोः। तयोर्विरो-धोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः। ईशस्य माया महदादिकारणं जीवस्य कार्य्यं शृणुपञ्चकोषम्। एतावुपाधी परजीवयोस्तयोः सम्यग्निरासेन परो न जीवः। राज्यं नरेन्द्रस्य भटस्य खेटकस्तयो-रपोहे न भटी न राजा। अथात आदेश इति श्रुतिःस्वयं निषेधति ब्रह्मणि कल्पितद्वयम्। श्रुतिप्रमाणानु-गृहीतबोधात्तयोर्निरासः करणीय एवम्। नेदं नेदंकल्पितत्वान्न सत्यं रज्जुर्दृष्टा व्यालवत् स्वप्नवच्च। इत्थंदृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः। ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये। नालं जहत्या, न तथाऽजहत्या, किन्तूभयार्थात्मिकयैवभाव्यम्। स देवदत्तोऽयमितीह चैकता विरुद्धधर्भांश-मपास्य कथ्यते। यथा, तथा तत्त्वमसीतिवाक्ये विरुद्ध-धर्मानुभयत्र हित्वा। संलक्ष्यचिन्मात्रतया सदात्मनो-रखण्डभावः परिचीयते बुधैः”।

"https://sa.wiktionary.org/w/index.php?title=तत्पदार्थः&oldid=394696" इत्यस्माद् प्रतिप्राप्तम्