तदन्यबाधितार्थप्रसङ्ग
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तदन्यबाधितार्थप्रसङ्ग¦ पु॰ तदन्यः बाधितार्थस्य प्रसङ्गः। प्रमाणबाधितार्थस्य प्रसङ्गरूपे प्रमाणबाधितार्थप्रसङ्गा-परपर्य्याये तर्कभेदे। तत्स्वरूपादि
“स चायं तर्कःपञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणवा-धितार्थप्रसङ्गभेदात् इति” विभज्य आत्माश्रयादीन् लक्ष-यित्वा जगदीशेनोक्तं यथा उक्तचतुष्कान्यः प्रसङ्गःप्रमाणबाधितार्थप्रसङ्गः। सोऽपि द्विविधो व्याप्तिग्राहकोविषयपरिशोधकश्च तत्राद्यो यथा धूमो यदि वह्निव्यभि-चारी स्यात्तदा जन्यो न स्यादिति। द्वितीयस्तु पर्वतोयदि निर्वह्निः स्यान्निर्धूमः स्यादित्यादि”। विषयस्य व्यभि-चारशङ्कानिवृत्तिद्वारा निश्चायकत्वेन परिशोधकत्वम्।
