सामग्री पर जाएँ

तदात्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तदात्मन्¦ पु॰ स आत्मा यस्य।

१ तत्स्वरूपे

२ तदभिन्ने च। तस्य भावः ष्यञ्। तादात्म्य अभेदे
“क्रमिकं यन्नाम-युगमेकार्थेऽन्यार्थवोधकम्। तादात्म्येन भवेदेषः समासःकर्मधारयः” शब्द॰ प्र॰।
“अभेदस्तादात्म्य तच्च स्ववृत्त्यसाधारणो धर्मः। असाघारणत्वं चैकमात्रवृत्तित्वम्। एकमात्रवृत्तित्वञ्चस्वमामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेद-विशिष्टं यत्तदन्यत्वम्। इत्येकमात्रवृत्तिधर्म एव विशेषण-विभक्त्यर्थः। वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्य्यादया[Page3216-b+ 38] आघारादीनां मुख्यकालीनत्वं स्यात् एवमनुयाजमात्र-स्योत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसंवाकादीनां मुख्यकाली-धर्मत्वादिना सामान्यप्रत्यासत्त्या सुज्ञेयत्वमेव। अभेदस्यसंसर्गतामतेप्येतादृशानुगतभेदस्यैव तथात्वमुचितम्। तत्त-द्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशेष्य तथात्वे घटोन नील इत्यादि वाक्यजन्यबोधे प्रतियोग्यभावान्वयी-तुल्ययोगक्षेमावितिन्यायेन तादृशानुगतसम्बन्धावच्छिन्न-प्रतियोगिताकाभावा एव भासेरन् नीलादिवृत्तिप्रति-योगिताकैकैकाभावः। तथा सति तादृशैकैकावभाव तात्प-पर्य्येण प्रयुक्तस्य नीलोपि न नील इति वाक्यस्यप्रामाण्य स्यात्” व्युत्प॰ गदा॰
“सत्यैक्ये मिथोभेदस्ता-दात्मम् तच्च तत्सत्तातिरिक्तसत्ताकत्वाभावः” वेदा॰ प॰
“तदात्मनोपि निषिध्यमानत्वे तन्निषेधात्मके तदात्मनिजगत्प्रवेशात्। न हि घटः पटात्मेत्यनेन घटस्वरू-पादन्यस्तदात्मा विहितः स्यात् यदि तु तादात्म्यं नामा-भेदाख्यो धर्मः कश्चिदिष्यते स घटपटद्यधिकरणतयानिषिध्यते तदा संसर्गाभाव एव स्यात्। तस्मान्निर्विशेषणतदात्मान्तर्भूतं जगदिति कोट्यन्तराभाव इति”। श्रीह-र्षखण्डने अन्योन्याभावखण्डने उक्तम्।

"https://sa.wiktionary.org/w/index.php?title=तदात्मन्&oldid=395138" इत्यस्माद् प्रतिप्राप्तम्