सामग्री पर जाएँ

तद्गुणसंविज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तद्गुणसंविज्ञान¦ पु॰ तत्र बहुव्रीहौ गुणस्य गुणीभूतस्यविशेषणस्य संविज्ञानं विशेष्यपारतन्त्र्येण बोधनं यत्र। व्याकरणोक्ते बहुब्रीहिसमासभेदे। भवति च लम्बकर्ण-मानयेत्यादौ गुणीभूतस्य कर्णस्याप्यानयने पारतन्त्र्येणा-[Page3217-b+ 38] न्वयवोधः। शब्द॰ प्र॰ स्वमते तल्लक्षणादिकमुक्त्वाप्राचीनमतसिद्धमप्युक्तं यथा
“तदतद्गुणसंविज्ञानौद्वौ भेदौ तदादिमः। विग्रहस्य विशेष्यो यस्त-द्विशेष्यकबोधकृत्”। तद्गुणसंविज्ञानोऽतद्गुण-संविज्ञानश्च बहुव्रीहेर्द्वौ भेदौ। तत्र विग्रह-वाक्यस्य विशेष्यविधया प्रत्याय्योयोऽर्थस्तद्विशेष्यक-बोधकृद्बहुब्रीहिः तयोरादिमस्तद्गुणसंविज्ञानस्तस्यस्वार्थगुणीभूतस्य सम्यग्विविशेष्यविधया विज्ञानं यस्मा-दिति व्युत्पत्त्या सान्वयसंज्ञकत्वात्। तद्भिन्नश्चातद्गुण-संविज्ञानश्चरमः इत्यर्थाद्गम्यते। घटस्वरूपः पदार्थः इत्या-दितोहि घटः स्वरूपं यस्येति विग्रहस्थले स्वस्वरूपा-भिन्नघटसम्बन्धित्वेन घटाभिन्नस्वस्वरूपसम्बन्धित्वेनवा विग्रहविशेष्यं कलसमेव विशेष्यविधया बोध्यतेघटस्य स्वरूपं यस्मादिति विग्रहे च विग्रहस्य यद्विशेष्यंततोऽन्यदेव स्वजन्यस्वरूपाभिन्नघटसम्बन्धित्वेन। कुटादि-र्गण इत्यादिरपि कुट आदिर्यस्येति व्युत्पत्त्या कुटा-भिन्नस्य स्वधर्मिकव्यवस्थाधर्मिणः सम्बन्धित्वेन धात्व-न्तरमिव कुटमपि बोधयंस्तद्गुणसंविज्ञान एव बहु-व्रीहिः। प्राचां मतेन तद्गुणसंविज्ञानबहुब्रीहिम-न्यथा निर्वक्ति।
“यः स्वार्थघटकार्थस्य खार्थान्वयिनिबोधने। अनुकूलो बहुब्रीहिः स तयोरथवादिमः”। यो बहुब्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थ-स्यान्वयबोधने समर्थः स तयोस्तदतद्गुणसंविज्ञा-नयोरादिमः। लम्बकर्णमानय हारग्रीवं पश्येत्यादौहि बहुव्रीहिर्लम्बस्वकर्णसम्बन्धिनः स्वग्रीवावृत्तिहार-सम्बन्धिनश्च स्वार्थस्यान्वयिनि कर्मत्वादौ स्वार्थघटकी-भूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येणान्वय-बोधगे समर्थ इत्येवंविध एव तद्गुणसंविज्ञानस्तद्भिन्नएव चार्थादतद्गुणसंविज्ञानः। यथा दृष्टसागरमानयइत्यादाविति

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तद्गुणसंविज्ञान/ तद्--गुण---संविज्ञान n. (a बहुव्रीहिcompound) in which the qualities implied are perceived along with the thing itself( e.g. दीर्घकर्ण, " long-ear " ; opposed to अ-e.g. दृष्टसागर, " one who has seen the ocean ") Ba1dar. i , 1 , 2 Sch. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=तद्गुणसंविज्ञान&oldid=395220" इत्यस्माद् प्रतिप्राप्तम्