तनूनपात
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तनूनपात(द्)¦ पु॰ तनूं न पातयति पत--णिच्--क्विप्नभ्राङित्यादिना नञोन नलोपः। तनूनं पातिरक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपंघृतं तदत्ति अद--क्विप् वा। अग्न्रौ, जठरस्थित्याभुक्तान्नादिपाचनादस्य देहापातकत्वम्। शतृपक्षे तनून-पान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः।
२ घृते न॰
६ त॰।
३ प्रजापतिपौत्रे।
“नराशंसः प्रतिशूरोमि-मानस्तनूनपात् प्रतियज्ञय्य धाम” यजु॰
२० ।
३७ तनून-पात् तनोति विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वातनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति[Page3221-a+ 38] तनूनपात् अग्निः यद्वा तनोति भोगानिति तनूःगौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयस-आज्यमिति घृतं तनूनपाद्वा” वेददी॰ निरुक्ते अस्यनिरुक्तिर्दर्शिता यथा
“तनूनपादाज्यं भवति नपादित्यन-नन्तरायाः प्रजाया नामघेयं भवति गौरत्रतनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयसआज्यं जायते। अग्निरिति शाकपूणिरापोऽत्र तन्वउच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जा-यन्त ओषधिवनस्पतिभ्य एष जायते। तस्यैषा भवति।
“तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदयासुजिह्व” निरु॰
८ ।
६ । अग्न्युद्देश्यके
४ प्रयाजभेदे च। तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानांपयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इतिभेदः यथोक्तं आश्व॰ श्रौ॰
१ ।
५ ।
६
“प्रयाजैश्चरन्ति”
“पञ्चैतेभवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायण-स्यापि पञ्चैव भवन्ति न षडेत्येवमर्थम्। एत इति वचनम्अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्चभवन्ति नापठितेन सहेत्येवमर्थम्” नारा॰। ये यजामहेइत्युपक्रमे
“समिधः अग्न आज्यस्य व्यन्तु
३ वौ
३ ष-डिति वषट्कारः
१५ सू॰।
“इति प्रथमः”
१६ सू॰।
“त्ययं प्रथमः प्रयाजः” नारा॰
“तनूनपादग्न आज्यस्येतिवेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः”।
२१ सू॰।
“नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्”
२२ । सू॰
“वसिष्ठादीनामयं द्वितीयः” नारा॰
“इडो अग्न आ-ज्यस्य व्यन्त्विति तृतीयः”।
२३ सू॰।
“सर्वेषामिति शेषः” नारा॰
“वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमेस्वाहाऽमुं स्वाहासुमिति”
२४ सू॰ इत्यादि। वसिष्ठादिभि-न्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वा-हाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम्। वसि-ष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः। अतएवश्रुतौ
“समिधो यजति तनूनपातं यजति इडोयजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताःवसिष्ठादिभिन्नषरतया व्यवस्याप्याः।
“बभार वाष्पैर्द्विगुणीकृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः।
“तनूंन पातयति जाठररूपेण धारयतीति” मल्लि॰।
