तन्तुपर्वन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्तुपर्वन्¦ न॰ तन्तोः यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र। चान्द्रश्रावणपौर्णमास्याम् तद्दिने हि वामनाय यज्ञोप-वीतदानोत्सवः स्मृतौ विहितः। राघवभट्टधृतनारसिंहवचनम्।
“शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने। सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। मन्त्रदीक्षांप्रकुर्वाणो मासर्क्षादीन्न शोघयेत्”। तन्तुपर्व परमेश्वरोप-वीतदानतिथिः श्रावणी पूर्णिमा” रघुनन्दनः। इयं तिथिः रक्षासूत्रबन्धरूपोत्सवदिनत्वात्तथेत्यपि तथाच तस्यां रक्षासूत्रबन्धनप्रकारः निर्णयसि॰ दर्शितो यथा
“अत्रैव रक्षाबन्धनमुक्तं हेमाद्रौ भविष्ये
“संप्राप्ते श्रावण-स्यान्ते पौर्णमास्यां दिनोदये। स्मानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः। उपाकर्मादिकं प्रोक्तमृषीणां चैव तर्पणम्। शूद्राणां मन्द्ररहितं स्मानं दानं च शस्यते। उपाकर्मणिकर्तव्यमृषीणां चैव पूजनम्। ततोऽपराह्णसमये रक्षापोट-लिकां शुभाम्। कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितै-रिति” अत्रोपाकर्मानन्तर्यस्य पूर्णमासीतिथौ वार्षिकस्यानु-वादो न तु विधिः गौरवात् प्रयोगविधिभेदे च क्रमायोगाच्छूद्रादौ तदयोगाच्च। तेन परेद्युरुपाकरणे पूर्वेद्युरपराह्णेतत्करणं सिद्धम्। इदं भद्रायां न कार्यम्
“भद्रायां द्वे नकर्त्तव्ये श्रावणी फाल्गुनी तथा। श्रावणी नृपतिं हन्तिग्रामं दहति फाल्गुनीति” संग्रहोक्तेः तत्सत्त्वे तु रात्रा-वपि तदन्ते कुर्य्यादिति निर्णयामृते। इदं प्रतिपद्युतायां नकार्यम्
“नन्दायादर्शने रक्षाबलिदानं दशासु च। भद्रायां गो-कुलक्रीडा देशनाशाय जायते” इति मदनरत्ने ब्रह्मवैवर्तात्भविष्ये
“उपलिप्ते गृहमध्ये दत्तचतुष्के न्यसेत् कुम्भम्। पीठेतत्रोपविशेद्राजामात्यैर्युतश्च सुमुहूर्ते। तदनु पुरीधानृपते रक्षां बध्नीत मन्त्रेण”। इदं रक्षाबन्धनं नियतका-लत्वात् भद्रावर्जं ग्रहणदिनेऽपि कार्यं होलिकावत्। ग्रहसंक्रान्त्यादौ रक्षानिषेधाभावात्
“सवेर्षामेव वर्णानांसूतकं राहुदर्शने” इति तत्कालीनकर्मपरमेव न त्वन्यत्र। अन्यथा होलिकायां का गतिः। अतएव
“नित्ये नैमित्तिकेजप्ये होमयज्ञक्रियासु च। उपाकर्मणि चोत्सर्गे ग्रहवेघोनविद्यते” इति नियतकालीने तदभाव इति दिक्। उपाक-र्मणीति तद्दिनभिन्नपरं तत्रतन्निषेधादित्युक्तं प्राक। मन्त्रस्तु[Page3223-a+ 38]
“येन बद्धो बलीराजा दानवेन्द्रो महाबलः। तेन त्वामपिबध्नामि रक्षे! मा चल मा चल”।
“ब्राह्मणैः क्षत्रियै-र्वैश्यैः शूद्रैरन्यैश्च मानवैः कर्तव्योरक्षणाचारो द्विजान्संपूज्य शक्तितः” इति।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तन्तुपर्वन्/ तन्तु--पर्वन् n. " thread-festival " , the day of full moon in month श्रावण(anniversary of कृष्ण's investment with the Brahmanical cord) Tithya1d.
