सामग्री पर जाएँ

तन्त्रयुक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तन्त्रयुक्ति¦ स्त्री तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः। सुश्रुतोक्ते द्वात्रिंशद्भेदके युक्तिभेदे। ताश्च यथा
“अथातस्तन्त्रयुक्तिनामाध्यायं व्याख्यास्यामः। द्वात्रिंश-त्तन्त्रयुक्तयो भवन्ति। तद्यथा। अधिकरणं योगः प-दार्थो हेत्वर्थ उद्देशो निर्द्देश उपदेशः प्रदेशोऽ-तिदेशोऽपवर्गो वाक्यशेषोऽर्थापत्तिर्विपर्य्ययः प्रसङ्गएकान्तो-ऽनेकान्तः पूर्वपक्षो निर्णयोऽनुमतं विधानमनागतावे-क्षणम् अतिक्रान्तावेक्षणम्। संशयो व्याख्यानं स्वसंज्ञा उदा-हरणं निर्वचनं निदर्शनं नियोगो विकल्पः समुच्चय ऊह्य-मिति अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते। वा-क्ययोजनमर्थयोजनञ्च। भवन्ति चात्र श्लोकाः। असद्वादि-प्रयुक्तानां वाक्यानां प्रतिहेलनम्। स्ववाक्यानां सिद्धिरपिक्रियते तन्त्रयुक्तितः। व्यक्ता नोक्ताश्च ये ह्यर्था लीना येचाप्यनिर्मलाः। लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसा-धनम्। यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा। प्रबोध्यस्य प्रकाश्यार्थास्तथा तन्त्रस्य युक्तयः। यमर्थम-धिकृत्योच्यते तदधिकरणं

१ यथा रसं दोषं वा। येनवाक्यं युज्यते स योगः

२ । यथा तैलं पिबेच्चामृतवल्लि-निम्बहिंस्राभयावृक्षक पिप्पलीभिः। सिद्धं बलाभ्याञ्चसदेवदारु हितञ्च नित्यङ्गलगण्डरोगी”। सिद्धं पिवेदितिप्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थाना-मपि पदानामेकीकरणं योगः। योऽर्थोभिहितः सूत्रेपदे वा स पदार्थः

३ । अपरिमिताश्च पदार्थाः। यथास्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपप-त्तिर्दृश्यते तत्र योऽर्थः पूर्बापरयोगसिद्धोभवति स ग्रही-तव्यो यथा। वेदोत्पत्तिं व्याख्यास्याम इत्युक्ते सन्दि-ह्यते बुद्धिः। कतमस्य वेदस्यायमुत्पत्तिं पिवक्षुरिति। ऋग्वेदादयस्त्रयोवेदास्तत्र पूर्वापरयोगमुपलभ्य विद--वि-चारणे विन्दत्येतयोश्च धात्वोरनेकार्थयोः प्रयोग इतिपश्वात्प्रतिप्रत्तिर्भवति। आर्युवेदोत्पत्तिमयं विवक्षुरित्येवंपदार्थः। यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः

४ । यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते यथा माषदुग्धप्रभृति-भिर्व्रणः प्रक्लिद्यत इति। समासकथनमुद्देशः

५ । यथाशल्यमिति। विस्तरवचनं निर्देशः

६ । यथा। शारीरमा-गन्तुकं चेति। एवमित्युपदेशः

७ । यथा
“तथा न जागृ-याद्रात्रौ दिवा स्वप्नञ्च वर्जयेत्” अनेन कारणेनेत्युपदेशः। यथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति। प्रकृतस्या-तिक्रान्तेन साधनं प्रदेशः

८ । यथा देवदत्तस्यानेन शव्य-[Page3228-a+ 38] मुद्धृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति। प्रकृत-स्यानागतेन साधनमतिदेशः

९ । यथानेनास्य वायुरूर्द्ध-मुपतिष्ठते तेनोदावर्त्तः स्यादिति। अभिव्याप्यापकर्षण-मपवर्गः

१० । यथा स्वेद्या विषापसूष्टा अन्यत्र कीटवि-षादिति। येन पदेनानुक्तेन वाक्यं समाप्यते स वाक्य-शेषः

११ । यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्तेपुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति। यदकीर्त्ति-तमर्थादापद्यते सार्थापत्तिः

१२ । यथौदनं भक्ष्ये इत्युक्तेऽ-र्थादापन्नं भवति नायं पिपासुर्यवागूमिति। यद्यत्राभि-हितं तस्य प्रातिलोम्यं विपर्य्ययः

१३ । यथा कृशाल्पप्राण-भीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढा-दयः सुचिकित्स्या इति। प्रकरणान्तरेण समापनंप्रसङ्गः

१४ । यथा प्रकारणान्तरितोयमर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः महाभूतशरीरसमवायः पुरुषस्तस्मिन्क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायांपुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरसमवायःपुरुष इति स खल्वेवं कर्मपुरुषश्चिकित्सायामधिकृतःसुर्वत्र। यदवधारेणोच्यते स एकान्तः

१५ ।
“यथा तृवृद्विरेचयति मदनफलं वामयतीति। क्वचि-त्तथा क्कचिदन्यथेति यः सोऽनेकान्तः

१६ । यथा केचि-दाचार्य्या ब्रुवते द्रव्यं प्रधानं केचिद्रसं केचिद्वीर्य्यंकेचिद्विपाकमिति। आक्षेपपूर्बकः प्रश्नः पूर्बपक्षः

१७ यथा कफवातनिमित्ताश्चत्वारः प्रमेहा असाध्याभवन्तीति। तस्योत्तरं निर्णयः

१८ । यथा शरीरं प्रपीड्यपश्चादधोगत्वा वसामेदोमज्जानुविद्धं मूत्रं प्रसृजति वातएवमसाध्या वातजा इति। तथाचोक्तम्
“कृत्स्नंशरीरं निष्पीड्य मेदोमज्जवसायुतः। अधः प्रकुप्यते वायु-स्तेनासाध्यास्तु वातजाः”। परमतमप्रतिषिद्धमनुमतम्

१९ । यथान्यो ब्रूयात्सप्त रसा इति। प्रकरणानुपूर्व्याभिहितंविधानम्

२० । यथा सक्थिमर्म्माण्येकादशप्रकरणानुपू-र्व्याभिहितानि। एवं वक्ष्यतीत्यनागतावेक्षणम्

२१ । यथाश्लोकस्थाने ब्रूयाच्चिकित्सितेषु वक्ष्यामीति। यत्पूर्बमुक्तंतदतिक्रान्तावेक्षणम्

२२ । यथा चिकित्सितेषु ब्रूयात् श्लोकस्थाने यदीरितसिति। उभयहेतुदर्शनं संशयः

२३ । यथातलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनं प्राण-हरमिति। तत्रातिशयोपवर्णनं व्याख्यानम्

२४ । यथेहपञ्चविंशतिकः पुरुषोऽत्र व्याख्यायते। अन्येष्वायुर्वेद-तन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता। अन्यशास्त्रासा-[Page3228-b+ 38] मान्या स्वसंज्ञा

२५ । यथा मिथुनमिति मधुसर्पिषोर्ग्रह-णम्। लोके प्रथितमुदाहरणम्

२६ । यथोष्णभयाच्छीतम-नुधावति। निश्चितं वचनं निर्वचनम्

२७ । यथायुर्विद्यतेऽ-स्मिन्ननेन वायुर्विन्दतीत्यायुर्वेदः। दृष्टान्तैनार्थः प्रसाध्यतेयत्र तन्निदर्शनम्

२८ । यथाग्निर्वायुना सहितः कोष्ठेवृद्धिं गच्छति तथा वातपित्तकफजोदुष्टव्रण इति। इदमेबकर्त्तव्यमिति नियोगः

२९ । यथा पथ्यमेव भोक्तव्यमिति। इदं वेति विकल्पः

३० । यथा रसौदनः सवृता यवागूर्व्वाइदञ्चेदञ्चेति समुच्चयः

३१ । यथा मांसवर्गे ऐणहरिण-लावतित्तिरिशारङ्गाः प्रधानमिति। यदनिर्दिष्टं बुद्धिमतातदूह्यम्

३२ । यथाभिहितमन्नपानविधौ चतुर्विधञ्चान्नमु-पदिश्यते। भक्ष्यं भोज्यं लेह्यं पेयमेवञ्चतुर्विधे वक्तव्येद्विविधमतिहितमत्रोह्यमिति। अन्नपाने विशिष्यद्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवति किञ्चा-न्यत्। अन्नेन भक्ष्यमवरुद्धं त्वन्नसाधर्म्यात्। पेयेनलेह्यं द्रवसाधर्म्यात्। चतुर्विधश्चाहारः प्रायेण द्विविधःप्रसिद्ध इति। द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे। गया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः। योह्येताविधिवद्वेत्ति दीपोभूतास्तु बुद्धिमान्। स पूजार्होभिषक् श्रेष्ठ इति धन्वन्तरेर्मतम्। ”

"https://sa.wiktionary.org/w/index.php?title=तन्त्रयुक्ति&oldid=396013" इत्यस्माद् प्रतिप्राप्तम्