तपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपः, [स्] क्ली, (तपति तापयति वा । तप उप- तापे + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) वैधक्लेशजनकं कर्म्म । यथा, -- “उमेऽतिचपला पुत्त्रि ! न क्षमं तावकं वपुः । सोढुं क्लशस्वभावस्य तपसः सौम्यदर्शने ॥” इति तिथ्यादितत्त्वे मत्स्यपुराणवचनम् ॥ * ॥ तत्फलं यथा, -- “तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥” इति च तत्रैव तद्वचनम् ॥ * ॥ अपि च । मरीचिरुवाच । “ब्राह्मणस्य तपोमूलं यज्ञः स्वाध्याय एव च । तस्मादग्ने ! फलं ब्रूहि तपसोऽध्ययनस्य च ॥ वह्निरुवाच । स्वाध्यायतपसोर्वक्ष्ये तन्मे निगदितं शृणु । तपसो हि परं नास्ति तपसा विन्दते महत् ॥ तपसा क्षीयते पापं मोदते सह दैवतैः । तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥ तपसा सर्व्वमाप्नोति तपसा विन्दते परम् । ज्ञानविज्ञानसम्पन्नः सौभाग्यं रूपमेव च ॥ तपसा लभते सर्व्वं तथैवाध्ययनेन च । तस्मात् स्वधर्म्मसंयुक्तो नित्यं सिध्यति पण्डितः ॥ धर्म्मात् सुखमवाप्नोति इह लोके परत्र च ॥” इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि- नामाध्यायः ॥ तपस्या । तत्त्रिविधम् । शारीरं वाचिकं मानसञ्च । यथा, -- “देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् । ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥ १ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् । स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते ॥ २ ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥” ३ ॥ तदपि त्रिविधम् । सात्त्विकं राजसं तामसञ्च यथा, -- “श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १ ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ २ ॥ मूढग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥” ३ ॥ इति श्रीभगवद्गीतायाम् । १७ । १४ -- १९ ॥ * ॥ जनलोकादूर्द्ध्वलोकः । यथा, -- “अस्योपरि तपोलोकस्तेजोमय उदाहृतः । वैराजा यत्र ते देवा वसेयुर्द्देवपूजिताः ॥ वासुदेवे मनो येषां वासुदेवेऽर्पितक्रियाः । तपसा तोष्य गोविन्दमभिलाषविवर्ज्जिताः ॥ तं तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः । शिलोञ्छवृत्तयो ये वै दन्तोलूखलिकाश्च ये ॥ येऽश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये । ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः ॥ हेमन्ते शिशिरे वा ये क्षिपन्ति सलिले क्षपाः । कुशाग्रनीरबिन्दूंश्च तृषिता यतयोऽपिबन् ॥ वाताशिनोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः । ऊर्द्ध्वहस्ता रविदृशस्त्वेकाङ्घ्रिस्थाननिश्चलाः ॥ ये वै दिवानिरुच्छ्वासा मासोच्छ्वासाश्च ये परे । मासोपवासं कुर्व्वन्ति चातुर्म्मास्यव्रताश्च ये ॥ ऋत्वन्ते तोयपाना ये ये षण्मासोपवासकाः । ये च वर्षानिमेषा वै वर्षधाराम्बुतर्षकाः ॥ स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः । जटाटवीकोटरान्तः कृतनीडाण्डजाश्च ये ॥ प्ररूढवल्मिकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः । लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥ शस्यानि च प्ररूढानि यदङ्गेषु महीपते ! । इत्येतैर्न्नियमैर्य्ये तु क्लिष्टात्मानस्तपोधनाः ॥ ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः ॥” इति पद्मपुराणम् ॥ * ॥ चान्द्रायणादिव्रतम् । धर्म्मः । इति मेदिनी । से, २४ ॥

तपः, पुं, (तपति तापयति वा । तप सन्तापे + पचाद्यच् ।) ग्रीष्मः । इत्यमरः । १ । ४ । १९ ॥ (यथा, माघे । १ । ६६ । “तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकॢप्तिं दधतः सदर्त्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपः in comp. for पस्.

"https://sa.wiktionary.org/w/index.php?title=तपः&oldid=396284" इत्यस्माद् प्रतिप्राप्तम्